________________
४३०
एकविंशत्यधिकशततमोऽध्यायः
चतुरस्ने' भवेदग्निर्मण्डले तु हुताशनः । अर्धचन्द्र ऽनलो ह्यग्निरेवं यज्ञः प्रतिष्ठितः ॥१३।। द्विजानाँ देवता सद्य प्राचार्यो योगवेदनम् । उदके वरुणो देवो दर्भेषु च महोरगाः ॥१४॥ स्र चायान्तु महादेवी श्रुवो देवस्त्रिलोचनः । तत्संयोगपरो देवः सर्वदेवनमस्कृतः ॥१५॥ प्रणीता पृथिवी ज्ञेया स्वाहा कारे महामरवाः । पुष्पेषु ऋतवो विद्धि पात्रेषु च महोदधिः ॥१६॥ वेदीमध्ये तु गायत्री सोमो अभ्युक्षणे स्थितः। ईन्धने मणिभद्रस्तु शिखं वज्रधरायुधः ॥१७॥ होतारन्तु विजानीयात् चमसादिषु पर्वताः। उच्छ्रवे देवता रुद्रस्तालवृन्ते तु वासवः ॥१८॥ मन्त्रणेषु गणाः सर्वाः भस्मे भूयोऽपि शंकरः । लोकपालास्तु कोणेषु .ओंकारे सर्वदेवताः ॥१६॥ मातरो होमभागे तु पूतना विष्फुलिंगदा। प्रादित्यादिस्थिता तेजे यो देवोऽपरः परः ॥२०॥ देवानां प्रात .मन्तु प्रहरार्धन भूतिदम् । मध्यान्हेतु मनुष्याणां होमहेतु प्रियादिकम् ॥२१॥ अपराह पितृणाञ्च सन्ध्यायां ग्रहभौतिकम् । रात्रौ पापविनाशार्थ दिव्यसिद्धि प्रसाधकम् ॥२२॥ प्रहरार्धन होतव्यमर्धरात्रे च आयुदम् । शेषे पुत्रप्रदं वत्स उदये सर्व कामदम् ॥२३॥ दक्षिणा सर्वकामेषु सर्वप्राप्तिप्रदायकम् । क्षणाधि देवता देया प्रथमाचरणाहुतिः ॥२४॥ अन्यथा विफलं विप्र भवते हवनं सदा । वार्भमृण्मयताम्राद्यैः रौप्यहेममयोद्भवैः ॥२५॥ दशधा पुण्यवृद्धिस्तु हवनस्नान भोजनैः । देवांकः शूल पद्मांकः शंखचक्रहुताशनैः ॥२६॥ . घृत-क्षीर-वसादीनि ग्रहीतव्यानि बुद्धिमान् । देव्यास्नापन यज्ञिय वसोर्धारा प्रभावितैः ॥२७॥ द्रव्योमं प्रकर्त्तव्यमन्यथा वा विधानतः । प्राप्त वेदेषु साम्तृप्ति पुष्टा दास्यन्ति देवताः ॥२८॥ वेला होनेषु सुराणामधिदेवभुजं फलम् । एवं ते कथित वत्स सर्वलोकसुरवावहम् ॥२६॥ होतारो मन्त्रहीनास्तु अशुचिर्भवते सदा। तस्मादसंस्कृते वह्नौ न होतव्यमवेदकैः ॥३०॥ मन्त्रविदश्च होतारो' प्राप्यायन्ति देवताः। अवेदकस्तु होतारो नैव प्रीणाति वै सुरान् ॥३१॥
होमात्सर्वफलावाप्तिः सर्वेषामपि जायते । तस्मान्मन्त्रविधानज्ञः प्रातरेव शुभप्रदः ॥३२॥
१. क ग पुस्तके ग इत प्रारभ्य दश श्लोका न सन्ति । २. मन्ताविन्दक हौतारौ क ग ।