________________
एकविंशत्यधिकशततमोऽध्यायः ।
ब्रह्मोवाच ।
वह्नविधानं परमं सर्वकामप्रसाधकम् । कथयामि सुरश्रेष्ठ नाम - भेद - क्रियादिभिः ॥ १ ॥ प्रग्नेः परिग्रहः कार्यः सर्वशास्त्रार्थ वेदकैः । वाम-दक्षिण- सिद्धान्त-वेदान्त- गृह्य- पारगैः ॥ २ ॥ कार्यः परिग्रहो वह्नः सर्वसम्पत्ति वेदिभिः । अन्यथा अन्तरायस्तु भवन्ति धन-प्रायुषौ ॥३॥ नित्यं व्याधिरधन्यो वा सर्वलोकनमस्कृतः । अविदित्वा यदा वत्स ज्ञात्वा सर्वं भवेद् बुधः ' ॥४॥ तस्मात्सर्वप्रयत्नेन बहुविद्य क्रिया मता । कुण्डाष्टकं समाख्यातं त्रिभेदन्तु मया तव ॥ ५ ॥ बहुवह्निविधानन्तु एकस्यैवोपचारतः । स्त्री- बाल-वृद्ध-शूद्रस्तु होतव्यं प्रत्यहं तथा ॥ ६ ॥ मठे महानसे वापि न कुण्डे तु कदाचन । संस्कृते नामभेदैश्च रक्षयित्वा हुताशनम् ॥७॥ महाविद्यार्थवेत्तारं हतव्यं फलकांक्षिभिः । श्रूयते च पुरा वत्स प्रविदित्वा वसोः सुतः ॥८॥ संस्कृतेऽहवमानस्य राज्यभ्रं शमवाप्नुयात् । तथा वा प्रनहोतारमचिरान्मृत्युमवाप्नुयात् ॥६॥ तस्मादस्थिरवह्नौ तु न होतव्यमवेदिना ।
वेदनन्तु प्रवक्ष्यामि येन सिद्धिः प्रजायते ॥१०॥
वृहस्पतिरुवाच ।
अग्निचक्रविधि पुण्यं देवतानां च स्थापनम् । श्रोतुमिच्छाम्यहं तात कथयस्व प्रसादतः ॥११॥
ब्रह्मोवाच । चतुष्कोणे ह्यहं वत्स मण्डले मधुसूदन । धनुषाकृतिको रुद्रः सर्वदेव नमस्कृतः ॥१२॥
१, उपरनुते क ।
३. अवनिहोतारम् क ग ।
२. मुखैस्तु क ग ।