________________
एकादशाधिकशततमोऽध्यायः ।
मनुरुवाच । कथं खट्वासुरः श्रेष्ठ आयुर्वेद प्रकाशता । निहतो देवदेवेन तन्मे ब्रूहि सनातन ॥१॥
ब्रह्मोवाच । गजरूपो महादेवो वसन्मालव पर्वते। खं विभागे स्थितो विष्णुः पथमार्ग निवारते ॥२॥ तयोः संरब्धो रोषेण महायुद्धे महात्मना। उत्पन्नो विश्वरूपात्मा महारूपो महाबलः' ॥३॥ अनंततेजाः पिंगाक्षो बहुमायो गुणात्मकः । भान्वायुत्तसहस्राक्षः कालानलसमप्रभः ॥४॥ सूर्यसोमेक्षणश्चण्डः पातालांघ्रिनखांगुलीः । नागाननाः सुराः सर्वे जंघे भूधरजानुनी ॥५॥ भूलीकं च भुवर्लोकं नाभिश्च महर्नक्षसम् । जननीवाः तपोवक्त्रं शिरः सत्यमयं वपुः ॥६॥ विष्णोस्तपस्य विध्वंस निर्वाणं गच्छतस्ततः । अवरांशं समास्थाय विष्णुर्योधितवाँस्तदा ॥७॥
कृत्वा वपुर्महासूक्ष्म बहुमायो महाबलः । घातिता विष्णुरुद्राद्याः भूयो भूयो विवर्धते ॥८॥ शरशक्ति गदादण्ड परश्वायुधघातजान् । पद्म पद्मसहस्राक्ष' विसृष्ट मात्मविग्रहः ॥६॥.. सहमाया समुद्भूतैः खट् बा-देह-समुद्भवः । वेष्टितो विषु विघ्नेशौ युध्यमानौ महाबलौ ॥१०॥ निष्पन्दं विष्णु कृत्वा तु विघ्नेशं च महाबलम् । इन्द्रादीन् स सुरान् वत्स योधनाय समुद्यतः ॥११॥
२. असुरांसम् ग।
१. महात्मनः ग। ३. कृत्वानु महायुद्धम् ग। ४. कुन्त ग।
५. सहस्त्राणाम् ग ।