SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् गुरुभोजनं दुर्विपाकानाम्, एकासन-शयन- भोजनं सुखपरिणामकराणाम्, स्त्रीष्वतिप्रसंग : शोषकराणां, शुक्रवेगनिग्रहः षाण्डकराणाम्, पराद्यतनमन्नम श्रद्धाजननानाम्, अनशनमायुषो ह्रासकराणाम्, प्रमिताशनं कर्णनीयाणाम्, श्रजीर्णाध्यशनं ग्रहणीदूषनानाम्, विषमशनंमग्निवैषम्यकराणाम्, विरुद्धवीर्यसनं निन्दितव्याधिकराणाम्, रजस्वला गमनमलक्ष्मी मुख्यानाम्, ब्रह्मचर्यमायुकरागाम्', सङ्कल्पो वृष्यानाम्, दोर्मनस्यमवृष्यानाम्, श्रयथाबलमाहरन्तः प्राणोपहारिणाम्, हर्षः प्रीजनानाम्, शोक शोषमानाम्, निर्वृत्तिः पुष्टिकरांणाम्, पुष्टिः स्वप्न तन्द्राकराणाम्, सर्वरसाभ्यास बलपुष्टिकराणाम्, एकरसाभ्यास दौर्बल्यकराणाम्, गर्भशल्यकमहर्ध्यानाम्, अजीर्ण रोगहेतुनाम्, बाल मृदुभेषजीयानाम्, वृद्धो याप्यानाम्, गर्भिणी तीक्ष्णौषधव्यायामवज्र्जनीयानाम्, सौमनस्यं गर्भधारणानाम्, सन्निपातो दुश्चिकित्सानाम्, ग्रामोविषमचिकित्सानाम्, ज्वरो रोगा. नाम्, कुष्ठं दीर्घरोगानाम्, राजयक्ष्मा रोगसमूहानाम् जलोक मोहनशस्त्राणाम्, हिमवान् श्रौषधभूमीनाम् शिवो मन्त्रसिद्धीनाम्, दुर्गाराधनं विजयानाम्, समाधी रसायनानाम्, नास्तिको वज्र्जयानाम्, लौल्यं क्लेशकराणाम्, बहुतन्त्रावलोकनं विमलीकरानाम्, तद्विद्या सम्भाषा बुद्धिवर्धनानाम्, आयुर्वेदोऽमृतानाम्, सन्तोषः सुखानामिति ॥ ३॥ ४०१ सर्वेषां साधने हेतुरारोग्यं समुदाहृतम् । तस्मात्प्रयत्नतो' वत्स प्रथमेनं समभ्यसेत् ॥४॥ वेदांगानां यथा ज्योतिर्वरिष्ठः मुनिसत्तम । उपांगानां तथा चैतदायुर्वेदो वरः स्मृतः ॥५॥ कपिलो हेमकुक्षिश्च वरुणो जलदाधिपः । मेखलो निषधो रुद्रो दुन्दुभिः पुलहो हरिः ॥ ६ ॥ यजनः सामकश्चेन्दुः काशिका जनको वपुः । हेमः सुमाली दीप्तिश्च भानुवर्णः प्रभाकपिः ॥७॥ सुषेणो महिमा पिंगो ब्रह्मा दक्षप्रजापतिः । अश्विनौ वृत्रहा श्रत्रिरेते वेदविदांवराः ॥ = ॥ आयुर्वेदार्थकुशलारमरत्वं गता मुने । मित्राणामुपकाराय अपकाराय शत्रवे हिताहितस्य वेत्तारो दृष्टादृष्टप्रसाधनम् । स्मारितं परप्रीतिनां शिवेन परमात्मना ॥ १०॥ खट्वा जिघांसता वत्स आयुर्वेद: प्रकाशितः ॥ ११॥ ॥६॥ इति श्री देवीपुराणे आयुर्वेद - निर्देश- समाप्तिर्नाम दशाधिकशततमोऽध्यायः ४ 1 १. प्रलपतो क ग । ३. अहितम् ख । २. निष्ठो ख ग । ४. प्राद्ये देव्यवतारे आयुर्वेदनिर्देशः क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy