SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३७५ देवीपुराणम् वदरान् बीजपूरांश्च उदुम्बर आखेटकान् । दापयेच्चैव भक्त्या वै नैवेद्यान्यपरानि च ॥११॥ फलार्थन्तु फला देव्या जयार्थ यव अंकुरान् । पुष्पं सौभाग्यकामाय रत्नान्यायुर्धनाय च ॥१२॥ धनुः शत्रुविनाशाय प्रियमिच्छाय तत् भवान् । अन्नं सर्वार्थकामाय यथालाभन्तु दापयेत् ॥१३॥ ततः क्षमापयेद्देवी विद्यां गृह्य व प्रार्थिताम् । पुत्रार्थ भोजयेद्वालान् विजयाय स्त्रियो द्विजान् ॥१४॥ धर्मार्थ चेव भोज्येत अनया विद्याभिमन्त्रिताम् । दक्षिणां च गुर्वाचार्ये कन्यका ब्राह्मणेषु च ॥१५॥ दापयेत् यथाशक्त्या तु तथा तमनुगृह्य च । भोज्याग्रं पुत्रकामेन ग्रामं विद्याभिमन्त्रितम् ॥१६॥ भोक्तव्यं पृथक्पात्रेण न च कुर्वीत शंकरम् । अनया विधिपूर्व तु मन्त्रमत्रव विद्यते ॥१७॥ तद्यः पृथिव्यां रेतस्तामेह ददतु यो मां भक्षितानि । विद्या प्रयच्छन्नष्टौ पुत्रान् जनयते वेदवेदांगपारगान् ॥१८॥ योऽधीत्य न प्रयच्छेत् सोऽपुत्रोऽपुसको भवति । अहं वीर्येनाहं वलेन धनेन । प्रों नमो भगवते अक्षीणरेतसे स्वाहा ॥१६॥ रतिकाले हि चिन्तयेद् दैवतं त्रिदशेश्वरम् । यस्य रेतेन लोकोऽयं भूषितः पावनो भुवि ॥२०॥ प्रों रेताय महारेताय सर्ववीर्यं महाबले । कामाय कामदेवाय मम कामान् प्रयच्छतु-ठंठं ॥२१॥ - अनयाभि मन्त्रितं शयनं भजेत् । प्रयच्छत्यष्टौ पुत्रान् यदि मोहं न गच्छति । एवं विद्यां गृहीत्वातु देवीं नित्यं प्रपूजयेत् ॥२२॥ भवते सर्वकामानां सिद्धिमिष्टां पराजिताम् । यानीह' फलपुष्पाणि उत्पद्यन्ते तु प्रावृषि ॥२३॥ देव्या विप्राय कन्याया गुरवे अपि दापयेत् । यथालाभं श्रुतं वत्स देयं पुष्पं फलानि च ॥२४॥ श्रावणी नवमी या सा आश्विनी कातिको पि वा। स्थातव्यमनेन विधिना अवश्यं सिद्धिमिच्छता ॥२५॥ १. गृहे च क । ३. प्रोप्तः क । ५. यातीह क ग। २. पुत्रण ख। ४. महातपे ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy