SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ शततमोऽध्यायः अगस्त्य उवाच । सर्वेषाञ्चैव पात्राणां देवी पात्रन्तु शंकरी । तान्तु पूजय विशेषा दृष्टा दृष्ट-प्रदायिका ॥१॥ ब्रह्मशास्त्र विधिः शक्र कथिता विजयावहा । शक्रेति पौर्णिमा तात श्रावणस्य शुभां वहा ॥२॥ शक्र उवाच । विजया या समाख्याता सर्वकाम प्रसिद्धये । तामहं श्रोतुमिच्छामि तत्त्वतः सुरसत्तमः ॥३॥ ब्रह्मोवाच । ॥६॥ पुत्रार्थं राज्यविद्यार्थं यशः सौभाग्यतोऽपि वा । विजयारोग्यकामाय विजयां कुर्वीत पौणिमाम् ॥४॥ हेमं वा राजतं वापि भैक्ष्यं खड्गं च पादुके । प्रतिमां वापि कुर्वीत सर्वलक्षणसंयुताम् ॥५॥ तामादाय शुभे ऋक्षे शुक्लवस्त्रविभूषिताम् । यवशाल्यंकु रोपेतामातपत्रविभूषिताम् देवीं सुशोभनां वस्त्रैः कल्पयेत् तत्र तां न्यसेत् । हुत्वा हुताशनं मन्त्रैस्ततो देवीं तु विन्यसेत् ॥७॥ रोचना-चन्दन-चन्द्र रूपलिप्य प्रपूजयेत् । नानापुष्पविशेषैस्तु धूपगन्धानुभोजनैः ॥ ८ ॥ बीजानि श्राहरेत् । पूजयेद्विधिवद्देवों तथा यवगोधूम मुद्गादि शालियष्टिक श्राढकी ॥६॥ तिलमाषाः प्रमाथी च श्यामाका नववालकाः । बिल्वाम्रदाडिमो चोदूधूमो च कापित्थनागरान् ॥ १०॥ १. भावितावहा क ग ३. पूर्णिमाम् क। ५. नारंगा क । २. माता क ग । ४. बेदीम् क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy