________________
एकोनसप्ततितमोऽध्यायः ।
मनुरुवाच । सर्वकामप्रदं पुण्यं गणयागं वदामि ते । हिताय सर्व्वलोकानां पार्थिवानां विशेषतः । विनायकः कर्मविघ्न सिद्धयर्थं विनियोजितः। गणानामाधिपत्ये च रुद्रण ब्रह्मणा पुरा ॥२॥ तेनोपलक्षितं कर्म लक्षणानि निवोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डञ्च पश्यति ॥३॥ काषायवाससश्चैव क्रव्यादांश्चावरोहति । अन्त्यजैगर्दभैरुष्ट्र: सहकत्रावतिष्ठति ॥४॥ ब्रजमानं तथात्मानं मन्यतेऽनुगतं परैः । विमना विफलारम्भः संसीदत्यनिमित्ततः ॥५॥ तेनोपधृष्टो लभते न राज्यं राजनन्दनः । कुमारी न च भरिमपत्यं गर्भिणी तथा ॥६॥ . प्राचार्यत्वं श्रोत्रियश्च शिष्यो नाध्ययनं तथा । वणिग्लाभं न चाप्नोति कृषीञ्च व कृषीवलः ॥७॥ स्नपनं तस्य कर्त्तव्यं पुण्येऽह्नि विधिपूर्वकम् । गौरसर्षप कक्कोल सद्यो नोत्सादितस्य च ॥८॥ सव्वौषधः सर्वगन्धै विलिप्तशिरसैस्तथा । भद्रासनोपविष्टस्य स्वस्तिवाच्यान् द्विजान् शुभान् ॥६॥
अश्वस्थानाद गजस्थानाद् वल्मीकात् सङ्गमा ह्रदात् ।
मृत्तिकां रोचनां गंधान् गुगुलूञ्चाप्सु निक्षिपेत् ॥१०॥ यदा कृतं ह्य कवर्णाश्चतुभिः कलशैह्नदात् । चर्मण्युपानहे रक्ते स्थाप्यं भद्रासनं तथा ॥११॥ सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥१२॥ भगं ते वरुणो राजा भगं सूर्यवृहस्पती । भगं मित्रश्च वायुश्च भगं सप्तर्षयो विदुः ॥१३॥ यत् ते केशेषु दौर्भाग्यं सीमन्ते पञ्चमूर्द्धनि । ललाटे कर्णयोरक्ष्वोरापस्तद् ध्नन्तु ते सदा ॥१४॥ स्नातस्य सार्षपं तैलं न वेणौडम्वरेण तु । जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्यते ॥१५॥ सितश्च सन्मितश्चैव तथा शालकटङ्कटाः । कूष्माण्डराज पुत्रांश्च यजेत् स्वाहासमन्वितम् ॥१६॥ नामभिर्वलिमन्त्रैश्च नमस्कारसमन्वितैः । दद्यात् चतुष्पथे सूपं कुशानास्तीयं सर्वतः ॥१७॥