________________
देवीपुराणम्
२२३
लक्षहोमं महाहोम कोटिहोमं. पुरोदितम् । गोभू हिरण्य वस्त्रान्न तिलदानं शुभावहम् ॥१६॥ पायसं दधिक्षीराज्यं देयं सर्वेषु भोजनम् । एवं प्रजायते शान्तिस्ततो द्रव्याणि माहरेत् ॥१७॥
तानि तोयेन प्रोक्षीयादुपहाराणि यानि तु । अथ पूर्वाह्न च यथा'वदाज्ये चाहुति हुत्वा दूर्वा पयोदधिसपिः सर्षपान फलवती अपामार्ग तिल बीहि-यव-समिधान्येतान्याहरेन्द्र वा स्नातः प्रयतः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य नित्य तन्त्रेणोदन-कृषर-यवागू-सक्तु-पायसं-दधिमधु घृताक्ताः पृथक् च वरः सर्वेषां वा पायसं ततः अग्निमुपसमाधाय जुहुयात् यथावदिति ॥१८॥
इति श्री देवीपुराणे सार्वदैविकी सर्वोत्पात शान्ति म पञ्चपञ्चाशोऽध्यायः ॥
-
__१. प्रातराहुतिभ् क ग। २. दूर्वा उप्रीनिमि ग ।
३. महाम्युदयादि सार्वदेविकी सर्वोत्पात शांतिः समाप्त ग ।