________________
२२२
पञ्चपञ्चाशोऽध्यायः
कृत्वा पञ्चभिराज्याहुतिभिः अभिजुहोति । अग्नये स्वाहा । अच्चिष्पतये स्वाहा । ईश्वराय स्वाहा । सर्वपाप शमनाय स्वाहेति । व्याहृतिभिश्च पृथक् पृथक् हुत्वा ॥८॥ सोऽन्तरीक्षमन्वा वर्तते । अथ यदास्यान्तरा'वर्षाणि चोल्काः पतन्ति । निपतन्ति, धूमायन्ति, दिशो दह्यन्ति । केतवश्चोत्तिष्ठन्ते । गवां शृङ्गषु रुधिरं स्रवन्ति । अत्ययं हिमान्युत्पतन्ति । इत्येवमादीनि तान्येतानि सर्वाणि सोमदेवतान्यद्भ तानि प्रायश्चित्तानि भवन्ति । सोमं राजानमिति स्थालीपाकं कृत्वा पञ्चभिराज्याहुतिभि रभिजुहोति पृथक् पृथक् । सोमाय स्वाहा । नक्षत्राधिपतये स्वाहा । सीरपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपाप शमनाय स्वाहेति । व्याहृतिभिश्च पृथक कृत्वा ॥६॥ स दिव मन्वावर्त्तते । अथ यदास्य विधाता धार्यते । वाता वायन्ते । अभ्रषु करकारिण दृश्यन्ते खरकरभकङ्कोलूक गृध्रश्येन भास नायस कपोत गोमायुसंस्थान्युपल पांशु मांस पश्गस्थि रुधिर वर्षारिण प्रवर्तन्ते । इत्येवमादीनि तान्येतानि सर्वाणि वायुदैगत्यान्यद्भ तानि प्रायश्चित्तानि भगन्ति । इदं विष्णु निचक्रम इति स्थालीपाकं कृत्वा पञ्चभिराज्या हुतिभिरभिजुहोति । विष्णवे स्वाहा । सर्वाधिपतये स्वाहा । चक्रपाणये स्वाहा ।
ईश्वराय स्वाहा । सर्वपाप शमनाय स्वाहेति व्याहृतिभिश्च पृथक् पृथक् . ॥१०॥ भूमिकम्पो दिशां दाहो ग्रहयुद्धश्च जायते । गगने दृश्यते केतुरादित्यश्चैव कम्पते ॥११॥ आदित्याज्जायते च्छिद्र कृष्णवर्णो हि जायते । विपरीतान्नदींश्चैव रुधिरञ्च प्रवाहयेत् ॥१२॥ शिला वा प्लवते यत्र रविर्मध्ये यदा क्वचित् । गगनात् श्रूयते दिव्यं निर्घातश्चैव जायते ॥१३॥ अत्यद्भुतं महाघोरं सृष्टि संहार कारकम् । राज्योपसंहरञ्चैव राजानां क्षयकारकम् ॥१४॥
____ इत्येवमादीनि तान्येतानि साण्यद्भुतानि प्रायश्चित्तानि भवन्ति । गृहे गृहे भवेच्छान्तिः मातृणां पूजनं बलिः । दानं रुद्र जपेन्नित्यं भास्करेज्या ग्रहाच॑नम् ॥१५॥
१. तारा वर्षाणि क ग। ३. सर्वदेवाधिपतये स्वाहा ग।
२. धार्यते ग । ४. हुत्वा पृथक् क ग।