________________
देवीपुराणम्
२०६ हेमराजत पात्रस्थौ जाति कामद चच्चितौ । करवीर कृता पोडौ कणिकार स्रजान्वितौ ॥२७५॥ रक्त वस्त्र परिच्छन्नौ धूपागुरु सुगन्धिनौ । दधि' प्रोदन क्षीरञ्च पायसं वलि भोजनः ॥२७६॥ हुत्वा चादित्य देवेन युगानामुदयेन तु । दत्त्वा दानं द्विजातीनां हेम भूषित वाससी ॥२७७॥ ततः क्षमापयेदेतौ चाश्वमेध फलप्रदौ । ब्रह्म हत्या सुरापान पितृहत्या विशोधनौ ॥२७८॥ तौ युगाकौं प्रयष्टव्यौ मूर्ति संस्थौ सुशोभनौ । युगपीडा विनाशाय सर्वकाम फलप्रदौ ॥२७॥
मेषादि विष्णु सूर्यस्तु नारायण युगान्वितः । पूज्या ब्रह्मोक्तन्यायेन प्रतिमा मण्डलेऽपि वा ॥२८०॥ मण्डपं मण्डपा यत्र मुच्यन्ते कर्मणोऽशुभान् ।
संवत्सर भयाद् घोरान् मण्डलाद्वाथ मण्डलम् ।।२८१॥ अलं पर्याप्ति भूषायां मण्डलं तेन चोच्यते । वसना भरणाच्चित्त रञ्जनं राजता मता ॥२८२॥ सम सूत्र कृतं क्षेत्र पूर्वोत्तरप्लवे भुवि । मण्डलं लक्षणोपेतं तत्र कार्य महामुने ॥२८३॥ प्रागुत्तरेऽथ मध्ये वा यथालाभमथा वले । सूत्रण वस्तुना शुद्धि न चादिशति वद्धितम् ॥२८४॥ वस्त्रानां पुरुषाणां वा तत्रस्थं सुपरीक्षितम् । वर्ण शुद्धयादि' रूपेण कुञ्चितं समदर्पणम् ॥२८५॥ तस्मिन् मान विभागन्तु बुद्ध या भागत्रयं कुरु । कगिका केशरान्भागे सर्वपत्राणि लेखयेत् ॥८६॥ दलाग्राणि मूलभागे पञ्चरङ्गध्वजेऽथवा । त्रिवर्णमेकवर्ण वा द्वारं पद्मासमानि तु ॥७॥ चतुरेकेऽथ वा प्राच्यां वीथोपत्र विहङ्गमः । नरनाभं पिवा वत्स पद्मनीलोत्पलोत्पलः ॥८॥ शक्रादिमय वज्रादि लिखेदिवेन्दु गता पिवा । मुक्ताफल प्रवालोऽथ पुष्परागकृता रजा ॥२८॥ सित कुङ कुमरागर्वा नीलमरकतैरपि । शालि षष्टिकचूर्णा यव गोधूम जाथ वा ॥२६०॥
२. भाद्यादि विष्णू सूर्य्यतु नारायणा युगात्तितं क ग ।
१. क पुस्तके पंक्ती नै सन्ति । ३. यश्वा बह्मोक्तन्यायेन क। ४. मंडलं क ग। ६. पूर्वोत्तर पुरेभुवि क । ८. स्वाक्षादि क ग।
५. मरणा भावना चित्त रंजना वारजा माता क ।
७. वक्तना शुद्ध क। ६. मुने क ग।