________________
२०८
पञ्चाशोऽध्यायः
शङ्ख स्फटिकजौ देवौ रजते परिकल्पितौ । गन्ध पुष्पोपहारेण वस्त्राभरण भूषितौ ॥२५५॥ जप होमं प्रकर्त्तव्यं वसतु शिवेन च । सर्व्वकामानवाप्नोति युग पीडां निवारयेत् ॥ २५६॥ वृश्चिके सविता सूर्यो' विश्वेति युगमुच्यते । तौ वज्रनील सम्भूतौ हमधारा सुसञ्चितौ ॥ २५७ ॥ रक्त पीतारुणं शुक्ल वस्त्र संवीत चर्चितौ । कृत्त्वा कुङ्कुम गन्धाद्यौ पङ्कजोत्पल मालिनौ । २५८ ॥ होमं देवदलं नागं क्षीर घृतं क्षीरं विमिश्रितम् ।
लक्षेद दक्षिणा देया गावो वस्त्र मणि भुवम् ॥ १५६ ॥
युगसूर्ये भवेत् पूजा पञ्चमत्रि चतुर्थकैः । सर्व्वकामानवाप्नोति युगपीडा विनश्यति ॥ २६०॥ पूषा धनुषि यष्टव्यो युगं सोमो विधीयते । महानील भवः सूर्यः शुक्तिकायां तथा यूगम् ॥ २६१॥ युगों तु हेमस्थौ सितकुङकुम चच्चितौ । वस्त्र पुष्पाक्षतं तौयं धूप नैवेद्य पूजितौ ॥ २६२ ॥ द्विराय प्रथमान्तेन च सर्व्वकाम फलप्रदौ । युगपीडा निवाराय यष्टव्यौ रवि संयुगौ ॥२६३॥ यष्टव्यस्त्वष्टा मकरे इन्द्राग्नि युगसंयुतः । कुरु इन्द्र ेन्द्र नीलोत्थौ पट्टोपरि सुसञ्चिते ॥ २६४ ॥ चन्दनागुरु कर्पूर रोचना मद चच्चितौ । रक्त वस्त्र सुपुष्पाद्यो महार्घ मणि भूषितौ ॥२६५॥ दत्त्वा क्षीरोदनं धूपं पञ्च निर्य्यास सम्भवम् । होमं कृत्वा मधुसर्पिः समिधारक्त चन्दनः ॥ २६६॥ ततः क्षमापयेदेतौ युग वह्निण दिवाकरौ । मण्डलान्तेन कुम्भेन हेम्य भुद्रायतेन च ॥ २६७॥ द्विजानां दक्षिणां दत्त्वा सर्व्व याग फलं लभेत् । युगपोडा न जायते तस्मिन् देशे महामुने ॥ २६८ ॥ यत्रायं विधि सम्पन्नः सयुगः पूज्यते रविः । कुम्भे प्रशोति यष्टव्यो युगाश्विन समायुतौ ॥ २६६ ॥ हे पट्टकृतौ देवौ युग सूथ्यों सराजतौ । वेदि* पट्ट परिच्छन्नौ कर्पू रमद चच्चितौ ॥२७०॥ कुण्ड कुर्य्यक कौरण्ड पुष्पा पीडा विभूषितौ । दत्त्वा देवदलं धूपं सतुरुस्कं वसान्वितम् ॥२७१॥ पञ्चाब्देन तु मन्त्रेण होमं कृत्वा क्षमापयेत् । द्विजानां दक्षिणां दत्त्वा वाजपेय फलं लभेत् ॥ २७२॥ ब्रह्म दत्यां व्यपोहेत युगपींडा न जायते । इन्द्राय कथितञ्चेदं वृत्राघस्योपशान्तये ॥ २७३॥ भगोऽतिते जाथ युगञ्चापि भगं तथा । यष्टव्यौ युग सूय्यौं तौ पक्षेन्द्रमणि सञ्चितौ ॥७४॥
१. पितृचेति युग तथा क ।
३. दलं शगंधूत क्षीरं क । ४. सुसंवितौ क ग ।
२. कार्थायी क ग ।
५. क पुस्तके पंक्ती न सन्ति ।