________________
देवीपुराणम्
वज्र दर्पण हस्ता च सित चन्दन चच्चिता । हारकेपूर शोभाढ्या सुरक्तवसनोज्ज्वला ॥१७६॥ पपरौदन पूजायां जलहोमेन सिद्धिदा । क्रोधिन्य रून्धती देवी सितवासां वृते स्थिताम् ॥ १७७॥ पत्रपुष्पोदककरां चन्दनेन सुर्चाच्चताम् । होमाध्ययन शीला च ' फलकन्दाशन प्रियाम् ॥ १७८ ॥ उशीरागुरु होमेन संवत्सरं भयापहा । विश्वावसौ क्रिया कार्य्या यज्ञाङ्गकृत भूषणा ॥१७६॥ मेखलाधारी च शुक्लरक्त सितोज्ज्वला ।
पद्मोपरि समासीनां पूजयेत् यस्तु भावितः ॥ १८०॥
चम्पकोशीर पुन्नागैः स लभेतेप्सितान् मुने । दुर्गा दिग्गज मत्तालि पृष्ठगा अरिसूदनी ॥ १८१ ॥ चर्मासि शर पिनाकधारिणी महिषापहा । तच्छिरोत्थ महाकायैस्तद्भटः परिवारिता ॥ १८२ ॥ रक्त स्रुक्त नेत्रैश्च क्षीर पायस भोजनैः । वेष्टिता नाग पाशेन केचिद्भिन्ना गतासवः ॥ २८३॥ "देवी शूल हताः कार्य्या सर्व्वे ते संमुखाननाः । पादोपमासने चैक एको हरि निवेशितः ॥ १८४ ॥ एवं विधेन रूपेण परवसु समेकृताम् । पूजयेत् सततं यस्तु गन्ध धूप स्त्रगादिभिः ॥ १८५ ॥ हेमराजत पत्रैश्च क्षीर पायस भोजनैः । स लभेतेप्सितान् कामाँस्त्रिगुणा जीवते समाः ॥ १८६॥ अनुक्तानान्तु देवीनां होमं क्षीर घृतं मतम् ।
प्रायुधं खड्ग शूलञ्च नैवेद्यं घृतपायसम् ॥ १८७॥
( इत्याद्ये देवी पुराणे संवत्सर देवता द्वितीय विशति विधिः )
काली प्लवङ्गनामे तु दण्डपाशोद्यता भवेत् ।
कृष्ण गन्धोपहारेण पूजिता शुभदायिका ॥१८८॥ रौद्री तु कीलके कार्य्या मुण्डकर्त्तकधारिणी । रक्त गन्धोपहारेण पूजिता शुभदायिका ॥१८६॥ सौम्ये कपालिनी कार्य्या त्रिशूल वर धारिणी । पीत रक्तोपहारेण होमेन च वर प्रदा ॥ १९०॥
२०३.
१. पुश क ग ।
२. दिगाजस क ।
३. रक्त स्रगक्त नेत्रेश्च तजितास्या महावलेः क ग ।