________________
देवीपुराणम्
१६३. प्रथमा संस्थिता वत्स सव्वं सिद्धि प्रदायिका । ब्राह्मी जयावती शक्तिरजिता चापराजिता ॥१२॥
जयन्ती मानसी माया दितिः श्वेता विमोहिनी।
शरण्या कौशिकी गौरी विमला रति लालसा ॥१३॥ अरुन्धती क्रिया दुर्गा राजसा इति चापराः । मध्यभागे स्थिता देव्यो युगानामशुभापहाः ॥१४॥ काली रौद्री कपाली च घण्टाकर्णा मयूरिका । बहुरूपा सुरूपा च त्रिनेत्रा रिपुहाम्बिका ॥१५॥ माहेश्वरी कुमारी च वैष्णवी सुरपूजिता । वैवस्वती तथा घोरा कराली विकटादितिः ॥१६॥
चच्चिका चेति चान्तस्था देव्यस्त्रैलोक्य विश्रुताः
पूजितव्या मुनिश्रेष्ठ सर्वकाम प्रसाधिकाः ॥१७॥ त्रि दशा सुर गन्धर्व यक्षरक्षोरगैन्न ताः । भावकालाश्रया कार्या द्रव्यरूप फलप्रदाः ॥१८॥ प्रत्येकशः समस्ता वा कर्तव्या मुनिसत्तम । अथवा युगभेदेन पञ्च पञ्च प्रपूजिताः ॥१९॥ रस्न हेम कृता देव्यो दृष्टादृष्ट प्रदायिकाः । नव सप्तक भेदेन रुद्रेश हर तुम्बरः ॥२०॥ ब्रह्मा पितामहो विष्णुः जनार्दन प्रभुःस्थित । मातरो भेद भावेन षट् स्वराः शिवयोजिताः ॥२१॥ देव देव्योपकाराय मन्त्रा ह्यते प्रकोत्तिताः । ग्रहभेदेन ता देव्यो नवसंख्याः प्रपूजिताः ॥२२॥ खखोल्क संवृत्य गा' आशव इति कीत्तिताः। मन्त्रा गृहे जले वत्स सर्वे प्रोङ्कार पूर्वकाः ॥२३॥ नमस्कारांत संयुक्ताः पूजायां होमे च स्वाहा । लोकपालाः प्रकर्तव्या दशधा तास्तु देवताः११ ॥२४॥
नागास्तारन्त भेदेन अनन्ताद्या विजातिकाः१२ ।
सूर्या द्वादश भेदस्था रुद्रा एकादश स्मृताः ॥२५॥ एवं सर्वगता देव्यः पञ्चभूत तनुस्थिताः । पञ्चधा ताः समाख्याता द्वादशा त्रिगुणा शिवा ॥२६॥
२. अजिता व क। ५. दिभिः क ग ।
३. शुभावह क । ६. फलाश्रयाः क ग।
१. विशैता क । ४. कराली क। ७. युगभेदेन पच प्रपूजिता: क। ८. षट् सुरास्तेवियोजिता: ख। ११. नवभेदिका रसमोदिका क ग ।
६. दिव क । १२. विजेतिका क ।
१०. ससोत्कस व्रवडा क । १३. रुद्रा ग्र कुलभास्कराः क ग ।