________________
पञ्चाशोऽध्यायः।
शौनक उवाच । एते क्षणा मुहूर्ताश्च लवाः काष्ठाः कलाः पुषा ।
यामाहः पक्ष मासाश्च क्रत्वयनसमा युगाः ॥१॥ षष्ठ्यब्द काल संख्याता ग्रह योग बलोद्भवाः । शुभावहा यथा तात तथा नो वक्तुमर्हसि ॥२॥
मनुरूवाच । संवत्सर प्रमाणेन देव्याः कृत पुरोहिताः । यष्टव्या विधिना तात सर्वकाम प्रसिद्धिदा ॥३॥ महाभय विनाशाय महारिपु वधाय च । महाभ्युदयकामाय महा सिद्धि फलाय च ॥४॥ पूजयेद् याजयेद् देवी षष्टिधा परमेश्वरीम् । ऋतुनाग कृता पीडा यक्षरक्षो ग्रहोद्भवा ॥५॥ संवत्सर महादोष जन्मक्षमुपमर्दकाः । केतूल्का शशि राहुभ्यां भौमाकि सित भानुजाः ॥६॥ शमयेद् यजमानस्य देवी होमरतस्य च । मण्डलादि विभेदेन महास्नानाभिषेचनैः ॥७॥ चन्द्र सम्पूर्ण पुष्यः फल रत्नाभि पूजनैः । मङ्गला मङ्गलं धत्ते विधिना पूजिता मुने ॥८॥ उत्पात क्षोभ निर्घात विकृतीनां शमाय च। कथयामि महाप्राज्ञ श्रृणुष्वैकमनाधुना ॥६॥
मङ्गला विजया भद्रा शिवा शान्ति ति क्षमा। ऋद्धि वृद्धिरुन्नतिः सिद्धिस्तुष्टिः पुष्टिः श्रिया उमा ॥१०॥ दीप्तिः कान्तियंशाः लक्ष्मीरीश्वरीति प्रकीतिताः । विशति'श्चोत्तमा देव्यः सत्त्वभाव व्यवस्थिताः॥११॥
१. फलोद्भवा क ग । ३. वयजे देवी क। ५. केतूत्था शनि रात्था क । ८. विकृतां क।
२. कृत्वा क ग । ४. मर्दना क ग । ६. समये अजमानस्य क ।
७. पिधाने नभ क।