________________
सप्तचत्वारिंशोऽध्यायः।
वर्गाः क च ठ त पादयाः' । लोहित भृगु सौम्य- सौराणाम् ॥१॥
सूर्यस्य प्रकाराद्याः शशिनो वर्णा यकारायाः ।
मेषादिषु नवभागार्थे सस्वरवर्णाः क्रमेण समभिगताः ॥२॥ वर्गे च परिसमाप्ते पूर्ववदारम्यते भूयः । स्वर व्यञ्जन संयोगो भूतत्त्व लता यथा योगम् ॥३॥ ज्ञात्वा सर्वमेशेष धर्मादिकमारभेन्नित्यम् । त्रुट्यनुपक्षमास क्रमायन समादिषु ॥४॥ पितरः सर्वदेवानां ग्रहादीनां निवोधत । आर्तवा पितरो ज्ञेया ये जाता ऋतुसूनवः ॥५॥ प्रपितामहा ऋतवः पञ्चाशत् ब्रह्मणः सुताः । सौम्या वहिषदश्चैव अग्निस्वार्ताश्च ते त्रिधा ॥६॥ आदित्यश्चैव सोमश्च लोहिताङ्गो वुधस्तथा । वृहस्पतिश्च शुक्रश्च तथा चैव शनैश्चरः ॥७॥ राहुश्च धूमकेतुश्च एते नवग्रहा स्मृताः । त्रैलोक्यस्य मे नित्यं भावा भाव विवेचकाः ॥८॥ . आदित्यश्चैव सोमश्च द्वावेतौ मण्डलौ ग्रहौ । राहुश्छाया ग्रहस्तेषां शेषास्तारा ग्रहाः स्मृताः ॥६॥ नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः । पच्येते चाग्निरादित्यो उदकं चन्द्रमाः स्मृतः ॥१०॥
आदित्यः पठ्यते शम्भुरुमां विद्यान् निशाकरम् । . पितामहस्तु विज्ञ य तृतीयोऽङ्गारको ग्रहः ॥११॥ काश्यपस्य सुतः सूर्यः सोमो धर्मसुतः स्मृतः । देवासुर गुरू द्वौ च भानुमन्तौ महाग्रहौ ॥१२॥ प्रजापति सुतावेतावुभौ शुक्रवृहस्पती । वुधः सोमात्मजः श्रीमान् सूर्य पुत्रः शनैश्चरः ॥१३॥ संहिकेयः स्मृतो राहूंः केतुश्च ब्रह्मणः सुतः । सर्वेषान्तु ग्रहाणां वै अधस्ताच्चरते रविः ॥१४॥ रवेरुवं स्थितः सोमः सोमात् नक्षत्रमण्डलम् । नक्षत्र भ्यो वुधस्तूचं वुधादूर्ध्वन्तु भार्गवः ॥१५॥
३. शशिनांना, क।
.
१. पालोहित क ग । २. सौम्य जीव, क ग । ४. मिषादिपू नव मागात् सस्वरवर्णाः क्रमेण समभिगता:, क । ६. मातरः, क ग ।
७. विवेकदा: क।
५. भृगु तन्य नता, के।