________________
१७१
देवीपुराणम् अवायः प्रत्यवायश्च कार्यश्चैवावलम्वने' । तस्मिन् - गजाननस्तात सपताकान् सतोरणान् ॥३२॥
तूर्य-शङ्खरवोपेतान् कृत्वा युद्ध समुन्महत्' । अमयोऽपि तदा क द्धः क़माद् व्यूहान् व्ययोधसः ॥३३॥ प्रतिव्यूहर्यथा योगं यावत् त्रिंशत् समाधिका ।
पञ्चभिस्तावतो व्यूहान् स निघ्नन् अरिमर्दनः ॥३४॥ त्रिंशे च तथा व्यूहे भिद्य माने सुरारिणा । रामः शरासनं सज्यमिषुभिः सन्निवारयेत् ॥३५॥ तदामयः सुसंक्रद्धो शरान् प्रति शरैर्हनेत् । छित्त्वा शरासनं मेध्यं पशुं विव्याध पञ्चभिः ॥३६॥ शरैरुल्का समाकारैर्दशभिः ताडयेच्छिरे । तदा शराहतं रामं दृष्ट्वा पार्वतिनन्दनः ॥३७॥ महामेघ निनादेन मुमोच दारुणं शरम् । विद्य त-पूर्व-महारावं मन्त्रोदधि समाकुलम् ॥३८॥ अलिवृन्द वरारावि शिखिदर्द र सङ्कलम् । केकिभिश्च सदा धृष्ट चातकेच्छा प्रवर्तकम् ॥३६॥
नीललोहित-मध्यान्तं गरलेभ सम प्रभम् ।
छादयन्तो दिशः सर्वाः पूरयन्तो नवाम्बुभिः ॥४०॥ पाशोद्यतकरं घोरं समयोपरि पपात सः । रथनागाश्वपादातं हन्यमानं सहस्रधा ॥४१॥ न संख्या विद्यते तात घातमानस्य दानवात् । तदामयः सुसंक्रुद्धो वायव्यास्त्र व्यचिन्तयत् ॥४२॥ सारङ्ग रथमारुढं स पताका ध्वजाकुलम् । नागाद्रि शिखरोत्खात 'भग्न प्रासाद तोरणम् ॥४३॥ वारुणं नाशयामास जलास्त्रं पावनस्तदा । १२तदा रामेण क्र द्धन आग्नेयं चिन्तितं शरम् ॥४४॥ पिङ्गाक्ष छागमारूढं सप्तजिह्न भयानकम् । शक्ति हस्तं महा उग्रं कालाग्नि सम तेजसम् ॥४५॥॥ दहन्तं दानवी सेनां भस्मोकुर्वञ्चराचरम् । तदा दानवनाथेन मुक्तं नारायणं शरम् ॥४६॥ शङ्ख चक्र गदाहस्तं खग पृष्ठ व्यवस्थितम् । तदा शङ्कां सुरा जग्मुस्तेन रामो निपातितः ॥४७॥ विमोऽसम्मोघात्मा सुरानैव संकृतिः । अकृत्वा संक्षयं याति अरिसैन्यं कदावन ॥४८॥
१. वत्वावले क। ३. क पुस्तके न सन्ति । ६. केकिकंठ क ग। ८. लीलां क ग । १०. शारदं क शारंग ग।
२. पेतान् कृलार्योद वत्समुत्सहे क । ४. नाकुलम् क ग। ५. रवाविशि क। ७. छास्त्र वर्त्तत्कं क। ६. गवाल क ग । ११. शिखरोत्थात क ग। १२. क पुस्तके न सन्ति ।