________________
१६२
एकोनचत्वारिंशोऽध्यायः
एका वा नगरान्तस्था पूजिता स्थापिता शुभा ।
प्रासादे पाठकुड्ये वां पुस्तके जल वह्निगा ॥१६६॥ निस्त्रिशे पूजयेत् क्षेमां सर्वकाम फलप्रदाम् । दमनी पदमाला च श्री घोष'वज्र शासना ॥१६७।।
अस्त्रं प्रत्यङ्गिरा देव्याः पूजयेत् समुदाहृता ।
एताभिः स्थापन कार्य शिवासन शवान्तगम् ॥१६॥ कन्या संस्थे द्विजः सूर्ये भवते सर्वकामदम् । यतो देवो भवेद् वृद्धा पितरो वृद्ध रूपिणः ॥१६॥
पितृगेह वशे तस्मात् स्थापितव्या शुभार्थिभिः ।
हेमादिमणि रत्नानि देवीञ्चोद्दिश्य स्थापने ॥१७०॥ पात्राणि च वस्त्राणि च कुर्य्यान्नाना गृहादिषु । शतेन कारयेद् देवं सहस्र सन्निवेशने ॥१७१॥
प्रात्मानं दार सर्वस्वं दद्यात् तत् स्थापके शुभे ।
यतः संसारादुद्धरणे नान्यः शक्तो गुरु विना ॥१७२॥ अतो देवी च द्रष्टव्या गुरुमन्त्रप्रदायकः । स्थापको भैरवादीनां यो भवेद् द्विजसत्तमः ॥१७३॥ स गुरुमन्त्र सिद्धान्तदाता' सर्व जगद्धितः । ग्रह नागे च श्लोकानां देवानां स्थापने हितः ॥१७४॥ विशेष वलि पूजादि वेत्ता देवी निवेशकः । धातूत्तमेन वर्णेन मत्स्यमांस सुरादिभिः ॥१७॥ देवीभ्यः स्थापनं शस्तं भयदं भवतेऽन्यथा । विहिता देवता विप्र तर्पणीया तु राजसी ॥१७६॥
तामसी तमसा पूज्या सुहृष्टा न तु सात्विको ।
मन्त्राः पदमालयाख्यानां क्षेमायाः स्थापने परे ॥१७७॥ पूजने वा क्वचिच्छस्ता नैष्ठिका न कदाचन । कुल मार्ग तथा वाम मातृ दक्षिण वेदिका ॥१८॥
देवी पूजाविध शस्ता'' न मन्दा न च नेष्ठिकाः । न सिद्धान्तक भावस्था न च देवक' भाविता ॥१७॥
.
१. शीघोगा क । ३. सिद्धान्तेत्तास क । ६. विद्येता क। - ८. सालिका क ग। ११. वेदकाः क . .
. २. प्रात्मानंदारसर्वस्वं सर्वदा उपस्थापके का, ४. निदेशक: क ग ।
५. वर्गेणा क। . ७. पुर्पनाया तु राजसा क। ६. कृचिस्थान क ग।
. : १०. गुरु क ग।