________________
देवीपुराणम्
१६१
आवृत्य संस्थितां मार्ग दिङ मुखानीव भास्करम् । तदा दानव नेता यो वदते त्यजतां पथम्' ॥१५२॥
अन्यथा रथनागैस्त्वं वृद्धे क्षेमं न स्थास्यसि ।
अथ वृद्धा वचः श्रुत्वा दानवेन प्रभाषितम् ॥१५३॥ वदते अन्यथा कृत्वा दानवेन तु कामितम् । प्रापूरय प्रयत्नेन अन्यथा न शुभं तव ॥१५४॥ प्रक्षेमं भवते तेषां यो मां वृद्धां न मन्यते । तदा दानव नेता यो गृहीत्वा तां करै किल ॥१५५॥ उत्थापयेद् गतासुः स पपात धरणी तले । नेतारं निहतं दृष्ट्वा शङ्खो नामासुरोत्तमः ॥१५६॥ अभ्यधावत् तदा देव्या धरण्यां स निपातितः। तदा तु सुवलो क्रुद्धो गत्वा देवी करे किल ।१५७॥
गृह्णाति तावत् पतित स क्षितौ विगतासवः । एवं तान् दानवान् सर्वान् विनाहव निपातितान् ॥१५८॥ पश्यन्ति मरुतो दृष्टास्त्यक्तशङ्काः पितामहा ।
भूतयोनिस्थिताः देव्या शूलासि शर शक्ति भृत् ॥१६॥ घण्टा डमरु वेण नि रवकाणि च वादयत् । शरभ शङ्खौ हतौ दृष्ट्वा दुन्दुभि वलदर्पितः ॥१६०॥ माधवस्य वधार्थाय. विरथेन वजेत् किल । यावद् देवी महालक्ष्मी महाविद्या सुरारिहा ॥१६१॥ निहत्य दारुणमाजौ दुन्दुभि संनिपात्य सा । कपाले रुधिरं कृत्वा श्येनकाद्यान् महाग्रहान् ॥१६२॥
शिवाद्याँ तर्पयेद देवीमिप्सितार्थ फलप्रदाम् ।
एवं तान् दानवान् हत्वा महावलपराक्रमान् ॥१६३।। अवध्यान् सर्वदेवानां वासवे क्षेमदा भवत् । क्षेमं देवेषु सा देवी कृत्वा दैत्यपतेः क्षयम् ॥१६४॥ क्षेमङ्करी शिवेनोक्ता पूज्या लोके भविष्यसि । अनेनैव तु रूपेण विद्याष्टक समन्विता ॥१६५॥
२. प्रज्ञामासितं क।
१. रोवदत्ये त्यज्यत्यां यर्था क । ३. तु कामितम् क। ५. ततो क ग।
४. अपीडयत् क। ६. सगितातितः क।
. सुबल: क ग। १०. महालज्जा ख।
९. निपातने ख।
८. गृहाति क। . ११. तर्पयां क ग