SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ "देवीपुराणम् वल उवाच । याच्यतां येन ते कार्यं सत्यं विप्र ददामि ते । संस्मृत्य मोहिनीं विद्यां वदते द्विजसत्तम ॥६०॥ ब्राह्मण उवाच । न मे धनैर्न दारैर्वा न भूम्या गज वाजिभिः । रत्नैः काय्र्यं महाबाहो देवयज्ञेऽसुराधिप ॥ ६१ ॥ येन निष्पाद्यते यज्ञः सुखदश्च' दिवौकसाम् । तमहं याचयामि त्वां दीयतां तद्भ ुतं मम ॥६२॥ एतत् कार्य्यं भद्र मम ऋषीणाञ्च विशेषतः । देवार्थं तव कायेन सिध्यते तन्मखोत्तमम् ॥६३॥ तदा दत्ता तनुस्तेन दानवेन महात्मना । विष्णुनापि स चक्रेरेण शिरस्यभिहतोऽसुरः ॥ ६४॥ प्राकृतं देहमुत्सृज्य दिव्यकायस्त्वभूत् - तदा । तस्यावयव सञ्जाता वज्रादयो रत्न जातयः ॥६५॥ लोचनेषु च तेजांसि पद्मरागिणि याभवन् । ५ विशुद्ध पात्र दानेन कायोरन्तः करोऽभवत् ॥ ६६ ॥ एवं संघातितः शुक्र विद्या मन्त्र बलेन च । विद्या मोहयित्वा तु न चास्त्र ेण न सङ्गरे ॥६७॥ तस्माद् विद्या वलं सर्व्वं दुःसहं सिद्धिदायकन् । स्मारितं भक्तिना विप्रमनेप्सित फलप्रदम् ॥६८॥ अथ दैत्ये गते स्वर्ग, सुतस्तस्य " महाबलः । सुवलः १२ सागरोपान्तादुत्तराद समुत्सुकः ॥६६॥ संक्रुद्धो देवराजस्य वधाय वधकांक्षया । दिव्यं रथवरं रुह्य मनोगामि सदश्वगम् ॥७०॥ पादरक्ष समोपेतं बहुशस्त्र समाकुलन् । कामगं सर्व्वशत्रूणां प्रधर्ष' च महाबलम् ॥७१॥ सारथि बहुशास्त्रज्ञ युद्धशास्त्र विशारदः । जयेति दुर्जयो देवैः सारथिः सौवलोऽभवत् ॥७२॥ पादरक्षो महाबलः सुमायो मन्त्रिसत्तमः । रुक्मी दैत्याधिपो नेता दण्डाध्यक्षो महावलः ॥७३॥ येन विष्णुः सुरेन्द्रश्च बहुधा सङ्गरे जितः । न जितः स सुरैः सैन्द्र ब्रह्म-विष्णुपुरोगमैः ॥७४॥ 3 १. यज्ञेषु स्वयं क । २. तव क । ५. स वक्रेण विवस्यमिहप्सरः क । ७. संज्ञाता वजाकरं भवेत् क । ६. मोहयित्त्वां विघयानवस्त्रेणातु संगरे क । ११. अनस्य क । ३. ममे भद्र क ग । ८. श्लोकाः न सन्ति क पुस्तके | १२. ग्रबलः क ग । १५५ 9 ४. तु प्रथोत्तमं क ग । ६. दिव्य कासंमूत्रदा के । १०. फलप्रदा क । १३. अप्रधार्यम् महाबलम् क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy