________________
१५४
एकोनचत्वारिंशोऽध्यायः
परेका भवते विद्या मम दत्ताथ शूलिना । मोहिनी नाम विख्याता मोहं सा कुरुते भृशम् ।।४४॥ अतोऽहं तस्य नाशाय स्मरामि परमेश्वरीम् । स्मरित्वा परमां विद्यां द्विजभावो जनार्दनः ॥४५॥ मध्यकायः सुवेशश्च वेदपाठी सविस्तरी । परिग्रही हुताशस्य ख्यापयन्तो व्रजन जपेत् ॥४६॥
यज्ञार्थं याचनां कस्य करोमि कथ्यतां मम ।
तं दृष्ट वा सूर्य तेजाभयुक्तो विप्रैवजेत् सुरः ॥४७॥ वलस्ते यज्ञ निष्पत्ति करोति द्विजसत्तम । हेमकूटे महाशैले तिष्ठते दानवोत्तमः ॥४८॥ 'सर्वज्ञोऽपि महामायी वञ्चनाय तदा गतः । मोहिनी जपमानस्तु विद्यां परम सिद्धिदान् ॥४६॥ विचित्र दनुराजस्य पुरं सर्व-पुरोत्तमम् । प्राविशद वादात्मा पठमानो जनार्दनः ॥५०॥ द्वारं गत्वा सुरेन्द्रस्य कुर्यात् प्राध्ययनं तदा । द्वारपालो वदत्येवं श्रुत्वा वेदध्वनि शुभम् ॥५१॥ पुराणि रत्नानि शुभं ददामि याच्यं यत् तव । इष्टं दानं द्विजश्रेष्ठं दुर्लभञ्च महामते ॥५२॥ तेनोक्तं दर्शनं द्वाःस्थ दीयतां दनुसत्तम । तदा स पूर्वमादिष्टः प्रषयामास तं नृपम् ॥५३॥ वलिनं बल सम्पन्नं दानवं सुरमर्दकम् । दानोद्यतकरं भद्र दृष्टवा प्रीत्यावभाषत ॥५४॥ किमायातो भवांश्चात्र कार्य विप्र तदुद्दिश । मोहिनी जपमानस्तु वदते द्विज केशवः ॥५५॥
___द्विज उवाच । अहं संप्रेशितो देवविद्धि मां काश्यपात्मजम् ।
यज्ञाः सैन्द्र : समारब्धा ऋषिभिश्चासुराधिप ॥५६॥ तस्य निष्पादनार्थाय प्रागतोहं तवान्तिकम् । दानं मे दीयतां राजन् सिद्ध यते येन तन्मखम् ॥५७॥
वल उवाच । येन संसिध्यते यज्ञो देवानां भो द्विजोत्तम । तद् वाचय धर्म दारान् शिवमद्य ददामि ते ॥८॥
ब्राह्मण उवाच । येन संसिध्यते यज्ञो देवानामसुराधिप । तद्देयं तच्च आदिष्टं सत्यमत्रावयोरपि ॥५६॥
१. क्षपयन्नब्रवीतेजपनख ।
२. पंक्ति नास्ति क पुस्तके ।
३. देवै क ।
४. देवारद्यो क ।