________________
देवीपुराण न्
सर्व्वकामानवाप्नोति विद्याधर पतिर्भवेत् । मोदते विविधान् भोगान् सर्व्व विद्यार्थ पारगः ॥१२॥ श्रथवा हेमरौप्यस्था बाक्षं पार्थिवशैलजम् । कारयेन्मृग राजन्तु महाकरि महापहम् ॥१३॥ महानखकरोत्थानं मुक्ताफलं गदाप्रभम्' ।
एवं विधं ततः कृत्वा नवम्यां पूजयेच्छिवाम् ॥१४॥
सोपवासः शुचिर्दक्षः सर्व्वसङ्ग - विर्वाज्जतः । कन्यकाः पूजयित्वा तु विप्रान् वेदविदस्ततः ॥ १५॥ देव्या भक्ताः सदाचारास्त्रिकालहवने रता । ते यथा शक्तितस्तोध्या ध्वजारोहण कर्म्मणि ॥१६॥ कन्या दिव्या स्वयं प्रोक्ता कन्या रूपा तु शूलिनी ।
यावत्साक्षत योनिः स्यात् तावद् देव्या सुरारिहा ॥ १७॥
द्विजो ब्रह्मा शिवो विष्णुः स्वकीय व्रत पालकाः । पूजितैस्तैस्तदा शुक्र सर्व्वे देवास्तु पूजिताः ॥ १८ ॥ दीनान्ध कृपनाणान्तु अन्नं देयन्तु शक्तितः । यथा सर्व्वगता देवी तदुद्दिश्य क्षयं भवेत् ॥ १६ ॥ Here area च शर्करान्वितम् । बलि वै सर्व्व भूतेभ्यो दश दिक्षु निवेदयेत् ॥२०॥
वज्र घोणा तथा जप्ता अष्टाविंशाक्षरापि वा 1
• सिंह स्तम्भे समारोप्य सर्व्वं मङ्गल शब्दिताम् ॥ २१ ॥ वेदध्वनि महामन्त्र कालिका चच्चिका पदम् । न्यस्यसिहं परं ध्यायेद् या पूर्व्वकल्पितम् ॥२२॥
एवं तं वस्त्रसंवीतं सर्व्वाभरणभूषितम् । देव्या महाध्वजं न्यस्त्र शेषाणामपि विन्यसेत् ॥ २३॥ ब्रह्मविष्विन्द्ररूद्राणां सोम सूर्य्यं दिवौकसाम् । ध्वजदानं महादानं सर्व्वदानोत्तमं मतम् ॥२४ यावन्न दीयते शुक्र ध्वजः प्रासादमूर्द्धनि । तावन्न तत्र भवेत् वत्स प्रासादं देवलाञ्छितम् ॥ २५॥ शून्य ध्वजं सदा भूता नाग गन्धर्व्वं राक्षसाः । विद्रावन्ति महात्मानो नाना वाधा करन्ति च ॥ २६ ॥ तस्मादेव गृहद्वार पुरपर्त्तन पर्वतैः । उच्छ्रिताः शान्ति कामाय ध्वजाः शुक्र सदाहिताः ॥२७॥
१. पद प्रदम् क ग ।
३. देतु क ग ।
५. अष्टांगेशाक्षरी पिवा ।
७. यादृशे क ।
१३७
२. दिवांध क ।
४. ज्ञना क ।
६. कल्पितः क ग ।
८. मेदत्स क ग ।