________________
पञ्चत्रिंशोऽध्यायः ।
विद्याधर उवाच ।
वं सा महाभागा ब्रह्म-विष्णु- परात्परा । तदहं श्रोतुमिच्छामि ध्वजदानं विधानतः ॥ १ ॥
अगस्त्य उवाच ।
यथा त्वं पृच्छसे वत्स तथा शक्र ेण ब्रह्मणि । पृष्टः पूर्व्वं तथा तेन शम्भुगीतं प्रकाशितम् ॥२॥ शक्रस्य भावयुक्तस्य तदहं ते महात्मनः । कथयामि यथान्यायं ध्वजदानं महाफलम् ॥३॥ शुक्र उवाच ।
देव्या ध्वज प्रमाणन्तु विधि दण्डस्य लाञ्छनम् । दीपते च यथा नाथ तदशेषं ब्रवीहि नः ॥४ ॥ ईश्वर उवाच ।
श्रन्डजं वाडजं वापि ध्वजं केश विर्वाज्जतम् । नवं समञ्च श्लक्ष्णं च प्रसादाद्दन्डर्माद्धितम् ॥५॥ समं सूक्ष्ममृजं' शुभ्रं शैलं वा धातुजं पिवा । तस्मिन् परे लिखेत् सिंहं सर्व्व-लक्षणलक्षितम् ॥६॥ रोचना सह चन्द्रेण हेम लेखन्या दुर्वया । प्रसादाच्चो लमानन्तु क्षितिं विस्तरतः करम् ॥७॥ ध्वजा पालन कर्त्तव्या दर्शयेद्विदक्षु देवताः । सर्व्वे वाहन - लांघेन लाञ्छिताः सहजेन च ॥८॥ किङ्किणी चामरो' पेतान् घण्टा दर्पण शोभितान् । कृत 'होम महा प्राज्ञः सहकार- दलान्वितान् ॥६॥ महा मङ्गल शब्देन देव्याः कुर्व्वस्तु पूजयेत। सुगन्ध पुष्प नैवेद्य तथा विभव विस्तरैः ॥ १० ॥ कन्यका ब्राह्मणान् भोज्ये दधि पायस शर्करैः । भूतानान्तु बलि दत्वा तथा तमुपरोहयेत् ॥११॥
१. सूक्ष्म मृज्वं क ।
४. भक्षरण क ग ।
७. घंराहण क ।
६. दला क ।
२. शिलं क ग ।
५. वर्जपादेन क ।
८. हत क ग ।
१०. तद्य क ।
३. मिथे क ।
६. वामरो क ग ।
०