________________
त्रयोदशोऽध्यायः ।
अगस्त्य उवाच ।
एतत् ते सर्वमाख्यातं केतुख्यापनमागतम् ' । भूयः किं पृच्छसे राजंस्तन्नो ब्रूहि वदामि ते ॥ १॥
नृपवाहन उवाच ।
कथितं विद्यामाहात्म्यं योगं नारद-पृच्छितम् । केतोः समुच्छ्रयः पुण्यः सर्वकाम- सुखप्रदः ॥२॥ भूयस्तात पुन: पृच्छेत् कथं घोरो महाबलः । नारदेन सपत्नीकः सहमंत्री विमोहितः ॥३॥ अगस्त्य उवाच ।
यथा स पृष्टवान्वत्स शक्रस्त्वसुरसत्तमः । एवं पितामहं पूर्वं विद्यायोगस्य कौतुकम् ॥४॥ देवं भूयोऽपि संपृष्टो घोर - बुद्धि-विघातनम् । कथं कुर्य्यान्महाबाहो नारदो मुनिसत्तमः ॥५॥ ब्रह्मोवाच ।
तस्य जयनशीलस्य प्रतापात् सुरसत्तमः । देवानां महती वृष्टिः सर्व्वा सुखप्रदा भवेत् ॥ ६ ॥ वनस्पतिः समस्ताश्च फलपुष्पैः सुशोभिताः । मोहिता घोरसेना तु सहमंत्रिपुरोहिता ॥७॥ विधर्मपथगा सर्व्वा भर्तुरन्वेषणे रता । वंचने तस्य दारादेर्धनस्य विभवस्य च ॥ ८ ॥ सन्मार्गं सत्पथं त्यक्त्वा तेन ते मोहितासुराः । विकर्मनिरता वत्स विधर्ममतिशीलिनः ॥६॥ ताञ्च शीलमतीं राज्ञीं दिगम्बरपरायणाम् । अनेक व्रत-भूयिष्ठां हेतुवाद- मनोनुगाम् ॥१०॥ पाषंड-सर्व-धर्मस्थां शिव-विष्णु जुगुप्सिताम् । न चाग्निहरणे भक्तिर्नातिथौ गृहपूजने ॥११॥ न मातरो महाभागा न गावो न च ब्राह्मणाः । एवं सा नारदोच्छिष्टान् धर्मान् कुर्य्यात् सदा सती ॥१२॥ एवं विधर्ममाधाय तस्य घोरस्य वै सभा: । सुपथमुज्भयित्वा तु उन्मार्गेन प्रवत्तरे ॥ १३॥
5
१. केतूत्थापन सागरम् क ग । २. अहं ग । ५. सुशोभितैः क ग । ६. शशीमतीम् ग ।
३. देवं ग । ४. विघातकम् ग । ७. पापं तु सत्त्वधर्मस्थां ग । ८. वै सताम् ग ।