SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ माधुर्य शार्करितशर्करया रयाद्यं, पीयूषवर्षमिव तर्कगिरा किरन्तम् । विद्यानुरक्तवनिताजनितास्यलायं हित्वा परत्र न मनो विदुषामरस्त ||३|| वल्लभ-भारती ] , तदनु समधूच्छिष्यस्तस्य प्रभुजिनवल्लभो, जगति कवितागुम्फा यस्य द्रवद्रसमन्थराः । श्रनितरकविच्छायापत्या चमत्कृतिचुञ्चवो, न हृदि मधुरा लग्नाः कस्य स्मरस्य यथेषवः ? ||८|| ११. जिनपालोपाध्याय - [ १३वीं शती ] - सङ्घपट्टक- टीका - प्रशस्तिः - पञ्चलिङ्गीप्रकरण - टीका - प्रशस्तिः चित्रं चित्रं वितन्वन्नवरसरुचिरं काव्यमन्यच्च भूयः, सर्वं निर्दोषमह्नो मुखमिव सगुणत्वेन पट्टांशुकश्रि । कान्तावत्कान्तवर्णं भरतनृपतिवच्चार्वलङ्कारसारं, चक्रे माघादिसूतेष्वभिमुखमहो धीमतां मानसं यः || १० || - सनत्कुमारच क्रि-चरितमहाकाव्य प्रशस्तिः ततोऽजनि श्रीजिनवल्ल पारव्यः सूरिः सुविद्यावनिताप्रियोऽसी । अद्यापि सुस्था रमते नितान्तं यत्कीतिहंसी गुणिमानसेषु ||५|| - धर्मशिक्षा-टीका - प्रशस्तिः शिष्योऽथ स श्रीजिनवल्लभाख्यश्चैत्यासिनः सूरिजिनेश्वरस्य । प्राप्य प्रसन्नोऽभयदेवसूरि, ततोऽग्रहीज्ज्ञानचरित्रचर्याम् ||७|| शुभगुरूपदसेवा वाप्तसिद्धान्तसारा वगतिगलितचैत्याबासमिध्यात्वभावः । गृहिवसति स स्वीचकारातिशुद्ध तथाऽस्य सुविहित पदवीवद्गाढ संवेगरङ्गः ||८|| संविग्नशिरोमणेरभून्मनः प्रसन्नं सकलेषु जन्तुषु 1 जिनानुकृत्यां भुवनं विबोधयन् यथा न शश्राम महामनाः स्वयम् ||१|| धर्मोपदेशकुलका ङ्कितमारलेखः, श्राद्ध ेन बन्धुरधिया गणदेवनामा । प्राबोधयत्सकलवाग्ज देशलोकं, सूर्योऽरुणेन कमलं किरणैरिव स्वैः ।।१०।। तानि द्वादशविस्तृतानि कुलकान्यम्भोधिवद् दुर्गमा न्यत्यन्तं च गभीरभूरिसुपदान्युन्निद्रितार्याणि च । व्याख्यातुं य उपक्रमः कृशधियाऽप्याधीयते मादृशे, नारोढुं तदमर्त्यशैलशिखरं प्रागल्भ्यतः पङ्गना ।।११।। एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रचूडामणे - भव्य प्राणिविबोधने रसिकतां वीक्ष्याद्भतां शाश्वतीम् 1 [ १३
SR No.002461
Book TitleVallabh Bharti Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherKhartargacchiya Shree Jinrangsuriji Upashray
Publication Year1975
Total Pages244
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy