________________
त्वयीति - मुनिरञ्जने यतिजनानन्ददायिनि निरञ्जने कर्मकल्मषरहिते त्वयि सर्वज्ञवीतरागतोपेते त्वयि भवति जगद् त्रिभुवनं युगपदेककालावच्छेदेन लयं व्ययं भवमुत्पादं चकाराध्रुवतां च तया प्रसिद्ध्या परममानसुमेयतया मीयतेऽनेनेति मानं ज्ञानं, परमं च तन्मानं चेति परममानं श्रेष्ठज्ञानं तस्य मेयसा ज्ञेयता तया, सरसि कासारे वीचिवदेव कल्लोलवदेव । यथा सरसि वीचयः समुत्पद्यन्ते विलीयन्ते जलत्वेन तिष्ठन्ति ध्रुवा भवन्ति तथा भवति त्रिभुवनं समुत्पादं व्ययं ध्रौव्यतां च प्राप्नोति। एतत्सर्वं वार्तया वार्तामात्रेण न, किन्तु यथार्थतया जगदेतदुत्पादादित्रितयरूपं विद्यते, तव ज्ञाने च तथैव प्रतिभातीत्यर्थः ।।२०।।
अर्थ - मुनिजनों को आनन्द देने वाले तथा कर्मकालिमा से रहित आप में यह जगत् एक ही साथ उत्पाद, व्यय और ध्रौव्य को उस प्रकार प्राप्त हो रहा है जिस प्रकार कि सरोवर की तरङ्ग । जगत् प्रसिद्ध ज्ञेयज्ञायकभाव की अपेक्षा यह सब यथार्थ में हो रहा है, कहने मात्र की अपेक्षा नहीं ।।२०।।
[२१] सुखमजं न भजन्नपि दीदिवि, भजति तावदहोऽतनुधी दिवि ।
मुनिरयं तनुधीरपि रागत; स्त्वयि च यावदके गतरागतः ।। (हे जिन )दिवि अतनुधीः दीदिविः अजं (त्वाम्) भजन् अपि अहो तावत् सुखम् न भजते। त्वयि रागतः तनुधीः अपि अयम् मुनिः (ग्रन्थकर्ता) अके गतरागतः च यावत् (सुखम्) भजति! .
__सुखमिति - दिवि स्वर्गे अतनुधीविशालबुद्धिः दीदिविवृहस्पतिः अजं न जायत इत्यजस्तं जन्मातीतं त्वामिति यावत् भजन्नपि सेवमानोऽपि तावत् प्रमाणं सुखं न भजते न प्राप्नोतीत्यहो विस्मयः त्वयि रागतो भक्त्यतिशयात् तनुधीरपि तन्वी बुद्धिर्यस्य तथाभूतोऽल्पबुद्धिरपि। अयमेष मुनिर्ग्रन्थकर्ता अके अनात्मनि शुद्धात्मभिन्नपरपदार्थे गतरागतो विनष्टप्रीत्यतिशयात् च यावत् यावत्प्रमाणं सुखं भजति। विशालबुद्धिधारकोऽपि बृहस्पतिः स्वर्गसम्बन्धिरागपरिणामाज्जिनेन्द्र माराधयन् तावत्सुखं न याति यावत् परवस्तुनि रागपरिणामाभावात् जिनेन्द्रं भजमानो मुनिः प्राप्नोतीत्यर्थः ।।२१।।
अर्थ - हे जिनेन्द्र! स्वर्ग में आपकी आराधना करने वाला विशाल बुद्धि का धारक बृहस्पति उतने सुख को प्राप्त नहीं होता, जितने सुख को पर वस्तुओं में राग रहित मुनि अल्पबुद्धि होकर भी आप में राग होने तथा अक-अनात्म पदार्थ में रागरहित होने से प्राप्त होता है ।।२१।।
(८२)