________________
जगति शं सुखस्वरूपं स्वपदं स्वकीयचैतन्यवैभवं ईहते समिच्छति तर्हि नु निश्चयेन ते भवतः, शिवदं मोक्षप्रदं पदयुगं चरणयुगलं श्रयतु सेवतां। भवच्चरणाराधनामन्तरेण स्वपदानुभूतिर्दुर्लभास्तीति भावः। हि यतः ये अधनिनो धनरहिताः सन्ति ते धनाप्तये वित्तप्राप्तये किम धनिनं वित्तेश्वरं न भजन्ति न सेवते? अपि तु सेवन्त एव ।।४।।
____ अर्थ - हे आत्मधन को प्राप्त करने वाले अरहन्तदेव! इस जगत् में यदि शान्त स्वभाव वाला जन सुखस्वरूप स्वपद शुद्धात्मतत्त्व को प्राप्त करना चाहता है तो वह मोक्षदायक अथवा कल्याणप्रदाता आपके चरणयुगल की सेवा करे। क्योंकि इस जगत् में जो निर्धन मनुष्य हैं, वे धन प्राप्ति के लिये क्या धनिकपुरुष की सेवा नहीं करते? अर्थात् अवश्य करते हैं ।।४।। .
_ [५] यदसि सत्यशिवोऽसि सदा हितः, तव मदो महसा हि स दाहितः।
गतगतिः सगतिर्गतसंमतिः, मममतेः सुगतिर्भुवि सन्मतिः ।। हे विभो! तव महसा हि स मदः दाहितः यत् सत्यशिवः असि! (अतः) भुवि सदा हितः असि | गतगंति: सगतिः गतसंमतिः सन्मतिः (अपि असि) (ततः) मम मतेः सुगति: (त्वमेव अस् ि )।
यदसीति - हे भगवन्! तव भवतः महसा तेजसा स प्रसिद्धो मदो गर्वो मदनो वा हि निश्चयेन दाहितो भस्मसात्कारितः यत् यस्मात् कारणात् तेन त्वं सत्यशिवः सच्चिदानन्दरूंपोऽसि, किञ्च सदा सर्वदा हितो हितरूपोऽसि । अतः गतगतिः गता नष्टा गतयो नरकाद्यवस्था यस्य सः। चतुर्गतिभ्रमणरहित: सगतिः मोक्षाऽभिधानया गत्या सहितः, गतसंमतिः गता प्राप्ता संमतिर्यस्य सः। सन्मतिः समीचीना मतिर्यस्य तथाभूतः त्वमसि । अतो भुवि पृथिव्यां मम स्तोतुः मतेः धियः। सुगतिः शोभनाश्रयदातासि ।।५।।
अर्थ - यतश्च आपके तेज के द्वारा वह मद-गर्व अथवा मदन दग्धकर दिया गया। अतः तुम्ही सत्यशिवरूप हो और तुम्हीं सदा हितरूप हो यतश्च आप गतगति चतुर्गति रूप परिभ्रमण से रहित हो, सगति - मोक्षरूप गति से सहित और गतसंमति समीचीन मति से सहित हैं ।।५।।
[६] नयनयुग्मनिभेन नयद्वयम्, समयनिश्चयहेतु न ! यद्वयम्।
कलयतीति तदाशयवेदका, निजमयाम इव व्यपवेदकाः ।। हे न! (तव) नयद्वयम् नयनयुग्म निभेन समय निश्चय हेतु इति कलयति! यत् वयम् तत् आशयवेदकाः निजम् व्यपवेदकाः इव अयामः।
(७३)