________________
[१]
सविनयं ह्यभिनम्य निरंजनम्, नतिमितं नृसुरैर्मुनिरंजनम् ।
भवलयाय करोमि समासतः, स्तुतिमिमां च मुदात्र समा सतः ।।
अत्र मुनिरंजनम् नृसुरैः नतिम् इतम् निरंजनम् सविनयम् हि (अहं) अभिनम्य मुदा समा सतः (निरंजनस्य) इमां स्तुतिम् च समासतः भवलयाय करोमि ।
सविनयमिति - अत्र जगति ( अहं विद्यासागर ) नृसुरैः नरश्च सुराश्च नृसुरास्तैः मानवामरैः नतिं स्तुतिं इतं प्राप्तं मुनिरञ्जनं यतिजनप्रमोदकारकं निरञ्जनं कर्मकालिमातीतं सिद्धपरमात्मानं सविनयं विनयसहितं हि निश्चयेन अभिनम्य नमस्कृत्य सतो निरञ्जनस्य सिद्धभगवतः अर्हत्परमेष्ठिनो वा इमां प्रारभ्यमाणां स्तुतिं स्तवनं मुदा समा प्रमोदेन सह समासतः संक्षेपेण, भवलयाय स्वस्य जन्ममरणात्मक – संसारविनाशाय करोमि विदधामि। द्रुतविलम्बितं छन्दः 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात्
-
।।१।।
अर्थ - इस जगत् में ( मैं विद्यासागर ) मनुष्यों और देवों के द्वारा स्तुत तथा मुनियों को प्रमुदित करने वाले, कर्मकालिमा से रहित सिद्ध परमात्मा को विनयपूर्वक नमस्कार कर अपना संसार - परिभ्रमण नष्ट करने के लिए हर्ष सहित उन निरञ्जन - जिनेश्वर अथवा सिद्ध परमेष्ठी की संक्षेप से इस स्तुति को करता हूं || १ ||
[२]
निजरुचा स्फुरते भवतेऽयते, गुणगणं गणनातिगकं यते ! विदितविश्व ! विदा विजितायते ! ननु नमस्तत एष जिनायते । ।
विदितविश्व! विदा विजितायते ! यते ! निजरुचा स्फुरते गणनातिगकं गुणगणं अयते ननु नमः ततः एषः (अहम् स्तुतिकर्ता विद्यासागर :) जिनायते ।
निजरुचेति - हे विदितविश्व ! विदितो ज्ञातो विश्वो लोकालोकौ येन तत्सम्बुद्धौ । विदा ज्ञानेन विजितायते विजिता आयतिरुत्तरकालो येन तत्सम्बुद्धौ । यते! महामुने! निजरुचा स्वकीयदेहदीप्त्या ज्ञस्वभावस्यात्मनो रुक् श्रद्धा तया वा । स्फुरते शोभमानाय गणनातिगकं गणनां संख्यामतीत्य गच्छतीति गणनातिगः स एव स्वार्थे कः तं गणनातीतं गुणगणं गुणसमूहं अयते प्राप्नुवते ते ननु निश्चयेन नमः नमस्करोमि त्वामिति यावत् । ततः तव स्तवनात् एषोऽहं विद्यासागरो जिनायते जिन इवाचरति । भवत्स्तवनप्रभावेणाहमपि जिनो भविष्यामीति भावः । । २ । ।
अर्थ - जिन्होंने समस्त पदार्थों को जान लिया है, जिन्होंने ज्ञान के द्वारा अपने
(७१)