________________
[९४]
पुण्यमुदयागतमदश्चाकमितरद भयं भवाद् गतमदः । न गतोऽखिलं गतमद इति वेद्मि विदन्तर्गतमदः । ।
भवात् भयंगत ! अदः उदयागतं पुण्यम् अकं च मत् इतरत्, अखिलं गतः गतमदः अः मत् इतरं न - इति विदन्तर्गतमदः (अहं) वेद्मि ।
पुण्यमिति- भवात् संसारात् भयंगत ! भयप्राप्त ! अदस्तत् उदयागतं पुण्यं सुकृतं अकं च पापं च मत् ज्ञानस्वरूपान्मत्तः इतरद् भिन्नं पुण्यपापे आत्मस्वरूपे न स्त इति भावः। अखिलं गतः ज्ञानापेक्षया सर्वंगतः सर्वज्ञ इति यावत् । गतमदो गर्वरहितः अः परमेश्वरः मत् अस्मत्तः इतरो भिन्नो न । स्वभावदृष्ट्या मयि परमात्मनि च भेदो नास्तीति यावत् । इतीत्थं विदन्तर्गतमदः विदो ज्ञानस्यान्तर्गतो मदो हर्षो गर्यो वा यस्य सः । ज्ञानाभिन्नानन्दयुक्तः अहं'वेद्मि जानामि । 'मदो मृगमदे मद्ये दानमुद्गर्वरैतसि' इति विश्वलोचनः । । ९४।।
--
अर्थ- हे संसार से भयभीत ! श्रमण ! उदय में आया हुआ वह पुण्य और पाप मुझसे भिन्न है । सर्वत्र व्यापक ( सबको जानने वाला) एवं गतमद • गर्वरहित अ परमेश्वर मुझसे भिन्न नहीं है । जिसका गर्व या हर्ष ज्ञान में विलीन हो गया है, ऐसा मैं जानता हूँ ।।९४।।
[९५]
यते सन्मतेऽमल ! य ऋषयस्तत्पदपद्मयुग्ममलयः । भजन्ति गतो यो मलयः समदृष्टिं कृतमदाऽमलयः । ।
-
यते ! सन्मते ! अमल ! कृतमदाऽमलयः यः मलयः समदृष्टिं गतः, तत् पदपद्मयुग्मं ये ऋषयः अलयः भजन्ति ।
यत इति- हे यते! हे सन्मते ! सती मतिर्यस्य तत्सम्बुद्धौ, हे अमल ! हे मलरहित! कृतमदामलयः मदो गर्व एव अमो रोगो मदामः कृतो विहितो मदामस्य यो विनाशो येन तथाभूतः। मलयः मे शिवस्वरूपे आत्मनि लयो लीनता यस्य सः । एवंभूतो यः समदृष्टिं माध्यस्थ्यभावं गतः प्राप्तः । तत्पदपद्मयुग्मं तच्चरणारविन्दयुगलं ये ऋषयो मुनयोऽलयो भ्रमरास्ते भजन्ति सेवन्ते । तथोक्तगुणगणमण्डितस्य चरणसरसिज युगलं मुनयोऽलयोऽपि सेवन्त इति भावः । । ९५ ।।
अर्थ- हे यते! हे सन्मते ! हे अमल ! जिसने मद - गर्वरूपी रोग का नाश कर दिया है, जो शिवरूप आत्मा में लीन है एवं समदृष्टि को प्राप्त है, उसके चरणकमलयुगल को ऋषिरूपी भ्रमर भजते हैं - नमन करते हैं ||९५||
(४७)