________________
यस्य हृदि प्रशमभावः समाजातः ( स ) यथाजातः श्रमणः शुद्धात्मजातः निर्जरातः कदापि दूर: मा अस्तु ।
यस्येति- यस्य मुनेः हृदि हृदये प्रशमभावः सम्यक्त्वस्य चिह्नभूतो गुणविशेषः ' रागादिषु च दोषेषु चित्तवृत्तिनिवर्हणम् । तं प्राहुः प्रशमं प्राज्ञाः समस्तव्रतभूषणम् ।' इति प्रशमलक्षणम्। समाजातः समुत्पन्नः स यथाजातो दिगम्बरः श्रमणः साधुः शुद्धात्मजातः शुद्धात्मनि जायत इति शुद्धात्मजा तस्याः तसिलन्तप्रयोगः । निर्जरातः कर्मणामेकदेशक्षयो निर्जरा तस्याः कदापि जात्वपि दूरो दूरवर्ती मास्तु प्रशमभावः सम्यग्दृष्टेर्भवति सम्यग्दृष्टेश्च प्रतिसमयम संख्यातगुणितनिर्जरा जायत इति सिद्धान्तः ।। ३६ । ।
अर्थ- जिसके हृदय में प्रशमभाव प्रकट हुआ है वह दिगम्बर मुद्रा का धारकनिर्ग्रन्थ साधु शुद्धात्मा से होने वाली निर्जरा से भी दूर नहीं हो||३६||
[३७] यत् संसारे सारं स्थायीतरमस्ति सर्वथाऽसारम् । सारं तु समयसारं मुक्तिर्यल्लभ्यते साऽरम् ।।
संसारे यत् स्थायीतरं सारं (तत्) सर्वथा असारम् अस्ति । सारं तु समयसारम् (एव) यत् सा मुक्ति: अरं लभ्यते ।
यदिति- संसारे आजवंजवे स्थायीतरं स्थायिन इतरत् स्थायीतरं क्षणभङ्गुरं यत् सारं धनमस्ति तत्सर्वथा सर्वप्रकारेण असारं सारहीनमस्ति । तु किन्तु समयसारं शुद्धात्मपरिणतिः सारं श्रेष्ठमस्ति यत् यस्मात् सा प्रसिद्धा मुक्तिः मोक्षः अरं शीघ्रं लभ्यते प्राप्यते 'सारं न्याय्ये जले वित्ते सारं स्याद्वाच्यवद्वरे' इति विश्वलोचनः, लघुक्षिप्रमरं द्रुतम्' इत्यमरः । । ३७।।
अर्थ- संसार में जो क्षणभङ्गुर सार-धन है वह सब प्रकार से असार है - सारहीन है। सार-श्रेष्ठ तो समयसार - शुद्धात्म परिणति ही है जिससे वह मुक्ति शीघ्र प्राप्त होती है ||३७||
[३८]
निस्सङ्गः सदागतिः विचरतीव कन्दरेषु सदागतिः । ततो भवति सदागतिः स्वरसशमितमारसदागतिः । ।
-स्वरसशमितमारसदागतिः निस्संगः सदागति इव सदागतिः कन्दरेषु विचरति । ततः (तस्मात् कारणात्) सदागतिः भवति ।
(१६)