________________
अर्थ - आत्मा में उत्पन्न हुआ शुभध्यान अपने आप में होने वाले रागादिक भावों को सब ओर से जला देता है- नष्ट कर देता है। जैसे कि वन में उत्पन्न और वायु से प्रचण्डता को प्राप्त दावानल समस्त वन को भस्म कर देता है ||८०।।
[८१] आद्या विरागा द्वितया सरागा, दृष्टिर्जनानां स्खलितात्मभावा । अभ्राश्रिता सा विमला ततश्चेत्,
मलाभिभूता पतिताम्बुधारा ।।। आद्येति - जनानां लोकानां स्खलितात्मभावा स्खलितः च्युत आत्मभावो यस्यां सा तथाभूता आद्या प्रथमा विरागदृष्टिः रागप्रपञ्चरहिता द्वितया च सरागा रागप्रपञ्चयुक्ता, अस्तीति शेषः तयोराद्यादृष्टिः अभ्राश्रिता मेघाश्रिता विमला निर्मला अम्बुधारा जलधारा अस्ति। अन्या मलाभिभूता मलाक्रान्ता पतिता पृथिव्यां पतिता अम्बुधारा अस्ति । विरागादृष्टिविमला सरागादृष्टिश्च समला भवतीति भावः । । ८१।।
· अर्थ - मनुष्य की दो दृष्टियाँ हैं एक विराग और दूसरी आत्मभाव से च्युत करने वाली सराग। विराग दृष्टि मेघाश्रित जलधारा के समान निर्मल है और दूसरी पृथिवी पर पड़ी जलधारा के समान मलिन.है ।।८१।।
[८२] यथा पृथिव्यां करिणो नरा वा, दृष्टिं गताः श्रीफलमत्तुमीशाः । हंसा हि मुक्ताफलभोजिनः स्युः,
सिताः समित्या युतका ह्यनाशाः ।। यथेति - यथा येन प्रकारेण पृथिव्यां वसुधायां दृष्टिं दर्शनशक्तिं विचारशक्तिंच गताः प्राप्ताः करिणो गजा नरा वा मानुषा वा श्रीफलं नारिकेलं पक्षे श्रिया लक्ष्म्याः फलम् अत्तुं भक्षयितुमीशाः समर्थाः सन्ति। करिणः पृथिव्यां पतितं खादन्ति नराश्च समुतुङ्गवृक्षात् चोटयित्वा खादन्तीति विशेषः। तथा सिताः शुक्लाः हंसा मरालाः समित्या समताभावेन युतकाः युतः सहितः क आत्मा येषां ते। अनाशा आशारहिताः साधवः मुक्ताफलभोजिनः स्युः हंसपक्षे मौक्तिकफलभोजिनः स्युः साधवश्च मुक्ताफलभोजिनो युक्तिरूपफलानुभवकाः स्युः। साधुपक्षे सिताः समुज्ज्वलभावा इति ग्राह्यम् ।। ८२।। अर्थ - जिस प्रकार पृथिवी में दृष्टि-देखने की शक्ति को प्राप्त हाथी और
- (३२१)