________________
योग्य इति - योग्यो ग्रहणधारणचिन्तनशक्तियुक्तः, दिनेयः शिष्यः, गुरुणा विनेत्रा शिक्षणप्रयासेन गुरुत्वं गौरवं नीतः प्रापितः, अत्र विषये किमु विस्मयः किमाश्चर्यम्, उ वितर्के। हि यतः पाषाणखण्डेऽपि प्रस्तरशकलेऽपि सा प्रसिद्धा - दृश्यमानेति यावत् दिव्याऽलौकिकी विरागता वीतरागता किं शिल्पिना कार्यकरेण न नो उदिता संप्रापिता ? ।। ७४ ।।
अर्थ - योग्य शिष्य यदि गुरु के द्वारा परिश्रम पूर्वक गुरुता को प्राप्त करा दिया गया है तो इसमें आश्चर्य की क्या बात है ? क्योंकि पााषणखण्ड में भी शिल्पी के द्वारा क्या वह अलौकिक वीतरागता प्रकट नहीं की जाती ||७४ ||
[७५] विवेकयुक्ता अलिवच्चरन्ति, सदावृता ये विषयैर्विचित्रैः । हिताहितज्ञानविविक्तचित्ताः,
कफे मृतास्ते खलु मक्षिकावत् । ।
जना
विवेकेति - विचित्रैर्विविधप्रकारैः विषयैः पञ्चेन्द्रियभोगोपभोगैः सदा सर्वदा आवृताः आवेष्टिता ये विवेकयुक्ताः हिताहितविज्ञानशालिनः सन्ति ते अलिवत् षट्पदा इव चरन्ति आचरणं कुर्वन्ति। यथालयः सौरभशालिनि वस्तुन्येव तिष्ठन्ति तथा विवेकवन्तो निरवद्यभोगेष्वेव रुचिं कुर्वन्ति न तु सावद्यभोगेषु । ये च हिताहितज्ञानविविक्तचित्ताः इदं मे हितमिदं च मेऽहितमिति ज्ञानेन विविक्तं शून्यं चित्तं येषां तथाभूताः सन्ति ते खलु निश्चयेन मक्षिकावत् कफे श्लेष्मणि 'मायुपित्तं कफः श्लेष्मा' इत्यमरः। मृता गतप्राणा भवन्ति । हिताहितविवेकाभावेन मक्षिकाः कफमपि हितं ज्ञात्वा तत्र संलग्नपक्षा म्रियमाणा दृश्यन्त एवेति भावः । । ७५ । ।
अर्थ - विविध भोग सामग्रियों से सदा घिरे रहने वाले जो लोग विवेक सहित हैं। भ्रमरों के समान योग्य विषयों का ही सेवन करते हैं और जो हिताहित के विवेक से शून्य चित्त वाले हैं वे कफ में फँसी मक्खियों के समान निश्चय से मृत्यु को प्राप्त होते हैं ।।७५।।
[७६]
दैवेऽनुकूले मुदितं जगद्वा,
पापोदये दुःखितमेव भावात् ।
आतापतस्तस्य रवेर्लता सा,
या छायिकाऽऽरादतिमूर्च्छिता स्यात् ।।
(३१८)