________________
आत्मतत्त्व भी दर्शनचेतना और ज्ञानचेतना-दोनों से एक साथ तन्मयीभाव को प्राप्त है। इस लोक में वे पक्षी क्या कभी एक पक्ष से उड़ते देखे गये हैं ? नहीं।।६७।।
__ [६८] हिताहिते ते निहिते हि ते स्तो, निजात्मनि भ्रातरियं सदुक्तिः । परप्रयोगोऽत्र निमित्तमात्रः,
फलं ह्युपादानसमं सदास्तु ।।
हितेति - हे भ्रातः! ते प्रसिद्ध हिताहिते हितं चाहितं चेति द्वन्द्वः श्रेयोऽश्रेयसी हि निश्चयेन ते तव निजात्मनि स्वकीयात्मनि निहिते स्थिते स्तः इतीयं सदुक्तिः सतां साधूनामुक्तिः कथनं अथवा सती चासौ उक्तिश्च सदुक्तिः सूक्तिरस्तीति शेषः। अत्र हिताहितविषये परप्रयोगोऽन्यसंसर्गः निमित्तमात्रोऽस्ति हि निश्चयतः फलं कार्यं सदा उपादानसमं उपादानसदृशं अस्तु। यत्कार्यरूपेण परिणमति तदुपादानं यच्च तत्र सहायीभवति तन्निमित्तम् ।।६८।।
अर्थ - हे भाई! तेरे हित और अहित तेरी ही निजात्मा में निहित हैं यह सूक्ति अथवा सत्पुरुषों का कथन प्रसिद्ध है। पर-पदार्थ का प्रयोग तो इसमें निमित्त मात्र है फल तो संदा उपादान के समान ही होता है ।।६८।।
[६९] माने तु मेयस्य सुखस्य दुःखे, बन्धे हि मुक्ते ईनिनो दरिद्रे । पात्रे तु दातुः पथिके पथोऽपि, मुख्यस्य गौणे सुदृशोऽपि चान्धे ।।
[७०] विज्ञस्य चाज्ञेऽप्यहिते हितस्य, क्षुधाभिवृद्धौ भुवि भोजनस्य । यथात्र देशे दिनरात्रियुक्ते, दिवाकरेन्द्वोः शृणु मूल्यमस्ति ।।
मान इति- मीयतेऽनेनेति मानं प्रस्थादि मापकपदार्थे सति मेयस्य- मातुं योग्यं मेयं गोधूमादिमेयपदार्थस्य, दुःखे इष्टवियोगादिजन्ये कष्टे सति सुखस्येष्टजनसंयोग
(३१५)