________________
[४८] पापं वपुर्जं त्वणुकप्रमाणं, वाक्कायजं यच्च ततोऽधिकं वा । चित्तस्य कार्यं तु सुमेरुमानं, पापान्मनोऽतोऽस्तु सदा सुदूरम् ।।
पापमिति - वपुर्जं शरीरप्रभवं पापं वृजिनं तु अणुकप्रमाणं सर्वतो लघ्वस्ति । वाक्कायजं वचःशरीरप्रभवं वा यत्पापं तत् ततः शरीरप्रभवात्पापात् अधिकं भवेत् । तु किन्तु चित्तस्य मनसः कार्यं कृत्यं मनोजन्यं पापं सुमेरुमानं मेरुप्रमाणं सर्वतोऽधिकमिति यावत्। अस्तीतिशेषः। अतोऽस्मात् कारणात् मनश्चित्तं पापात् पाप्मनः सदा सर्वदा सुदूरं अतिशयेन दूरं विप्रकृष्टमस्तु भवतु । मनोजन्यं पापं सर्वतो गुरुतरमस्त्यतस्तत्त्याज्यमेवेति भावः । । ४८ । ।
अर्थ - शरीर से होने वाला पाप अणुप्रमाण है, वचन और शरीर से होने वाला पाप उससे अधिक है और मन से होने वाला पाप सुमेरुप्रमाण है - सबसे अधिक है इसलिये पाप मन सदा दूर रहे ||४८ ||
[४९] दानेन भोगी भुवि शोभते स, ध्यानेन शस्तेन तथा स योगी ।। निःसङ्ग - पात्रस्तु निरीहवृत्त्या, चेहा प्रतोली नरकस्य वोक्ता ।।
दानेनेति - भोगी भोगवान् गृही दानेन त्यागेन भुवि पृथिव्यां शोभते तथा स प्रसिद्धो योगी मुनिः शस्तेन शुभेन ध्यानेन धर्म्यशुक्लरूपेण शोभते । तु किन्तु निःसङ्ग पात्रो निर्ग्रन्थगुरुः निरीहवृत्त्या निःस्पृहवृत्त्या शोभते । ईहा आकाङ्क्षा नरकस्य श्वभ्रस्य च प्रतोली प्रमुखद्वारमिव उक्ता कथिता । । ४९ । ।
अर्थ - पृथिवी पर भोगी मनुष्य दान से, योगी प्रशस्त ध्यान से और निर्ग्रन्थ मुनि निःस्पृह वृत्ति से सुशोभित होता है, क्योंकि स्पृहा - वाञ्छा नरक के प्रमुखद्वार के समान कही गई है || ४९||
[५० ] सागारको वाप्यनगारको वा, कर्मक्षयार्थं निरतो ऽस्तु धर्मे । करोतु कार्यं कृषकः स कार्य्यं, धान्याय शस्यं न तृणाय हास्यम् ।।
(३०६ )