________________
धनेति - धनार्जनारक्षणयोः धनस्य वित्तस्यार्जनं प्राप्तकरणम् आरक्षणं संरक्षणं च तयोः विलीनः समासक्तः अतएव आर्त्तमना आर्त्तं मनो यस्य स दुःखितहृदयः ना नरः सुखेन शर्मणा विना सुखमप्राप्यैव मृतो म्रियते स्म । यथा येन प्रकारेण सा प्रसिद्धा चमरी सुन्दरवालधियुक्ता सुरागौः वालधिवालसंरक्षणपरत्वेन व्यथां पीडां गता प्राप्ता । अतो मोहस्य लोभप्रवृतेः शक्तिः समर्थता जगता भुवनेन गम्या ज्ञातुं योग्या नास्तीति शेषः । यथा गुल्मलग्नवालधिश्चमरी पिच्छवालसंरक्षणलोभेन तत्रस्था लुब्धकेन मार्यते तथार्य परिग्रहासक्तो नरः सुखमप्राप्यैव कालेन मार्यत इति भावः । । ३३ । ।
अर्थ - धन के उपार्जन और संरक्षण में लगा मानव सुख के विना दुःखी होता हुआ मर जाता है जैसे इस जगत् में सुरागाय पूँछ के बालों की रक्षा में संलग्न रह पीड़ा को प्राप्त होती। अतः मोह की शक्ति-समर्थता जगत् के गम्य नहीं हैं - जानने योग्य नहीं है ।।३३।।
[३४] `शस्ताः प्रजाः सन्तु विनात्र राज्ञा,
राजा तथा नोऽस्तु विना प्रजाभिः । को नाम सिन्धुः परतन्त्र एव,
बिन्दुः स्वतन्त्रः किल सिन्धुहेतुः । ।
शस्ता इति - अत्र जगति राज्ञा नृपेण विना शस्ताः श्रेष्ठाः प्रजाः सन्तु । तु किन्तु प्रजाभिः विना राजा नृपस्तथा तादृक् शस्त इति यावत् नो अस्तु न भवतु । भोगभूमौ राज्ञा विना प्रजाः सुखेन निवसन्ति परन्तु कर्मभूमौ प्रजामन्तरेण राजा न भवति । तदेवोदाहरतिसिन्धुः सागरः को जामास्ति यः परतन्त्र एव विन्द्वायत्त एव वर्तते किल बिन्दुः पृषतः स्वतंत्रः सिन्धुहेतुः सागरव्यपदेशनिमित्तं भवति । स्वतन्त्रोऽल्पीयानपि शोभते परायत्तो महानपि न शोभते इत्यर्थः । । ३४ । ।
अर्थ - इस जगत् में राजा के विना उत्तम प्रजा भले ही रह सकती है परन्तु प्रजा विना राजा नहीं हो सकता है, क्योंकि प्रजा के रहने पर ही प्रजापति - राजा संज्ञा प्राप्त होती है। अतः राजा प्रजा के अधीन होने से परतन्त्र है, प्रजा स्वतन्त्र है। पानी की बूँद सागर के विना स्वतन्त्र रह सकती है परन्तु बूंदों के विना सागर का अस्तित्व नहीं रह सकता, क्योंकि बूंदों का समूह ही सागर कहलाता है ।। ३४ ।।
(2EE)
Tvers...