________________
सुखमेवोत्पद्यत इति यावत् । विरागतो वैराग्यभावात् शमसुखोदधिशान्तिसुखसागर एव । अकवते दुःखिने जगते लोकाय बहिरागतः बहिः प्रकटितः । साधोरन्तरात्मनि यत्प्रशमसुखसागरो वर्तते स दुःखिजनत् सुखीकर्तुमिव बहिरागच्छतीति भावः । । ७४ ।।
से
अर्थ - हे ब्रह्मन् ! विहार करने वाले साधु के विहार, शयन और आसन में सुख सुख ही उत्पन्न होता रहता है अर्थात् कष्ट होने पर भी उनकी प्रसन्नता स्थिर रहती है। ऐसा जान पड़ता है मानों उनके भीतर जो शम और सुख का सागर लहरा रहा है वह विरागता के कारण दुःखी संसार को सुखी करने के लिये ही बाहर आ गया है। ।।७३।।
[७४]
यदि कदाचिदतो हृदि जायते, वपुषि चाकुलता विधिजा यतेः । न हि विना यदनेन विसातनं, त्विति विधेः समयेऽन्यदसाधनम् ।।
यदीति - यदि कदाचित् जातुचित् यतेः साधोः हृदि मनसि वपुषि शरीरे च विधिजा कर्मभवा आकुलता वेदना जायते समुत्पद्यते तदा स एवं चिन्तयति यत् अनेन परिषहेण विना विधेः कर्मणो विसातनं निर्जरणं न हि भवति । समये शास्त्रे अन्यत् परिषहजयात् भिन्नम् असाधनमहेतुर्निर्जराया इति यावत् । एवं चिन्तयित्वा स मनसो वपुषश्च पीडां निवारयति । । ७४ ।।
अर्थ - यदि कदाचित् मुनि के हृदय और शरीर में कर्मोदय से समुत्पन्न आकुलता होती है तो वह इस प्रकार चिन्तवन करता है कि परिषह के विना कर्म निर्जरा नहीं होती । आगम में इसके अतिरिक्त अन्य को निर्जरा का असाधन कहा है ।।७४।।
[७५]
परिमलं गुणवन्निजभावित - दचलवस्तु मया किल भावितम् । मलमलं हि ततोऽत्र भवस्तुत ! मुनिनुतं शुचिवस्तु तु वस्तुतः ।। परिमलमिति - यद् गुणवत् नैकगुणसंपन्नं निजभावि स्वभावसहितं मया मुनिना भावितं भावनाविषयीकृतं चिन्तितमित्यर्थः अचलवस्तु अविनश्वरपदार्थ आत्मेति यावत् तदेव किल निश्चयेन परिमलं चित्तहारिगन्धविशेषः ‘भवेत्परिमलश्चित्तहारिगन्धविमर्दयोः' इति विश्वलोचनः । ततस्तस्मात् कारणात् हे भवस्तुत ! हे लोकस्तु त ! अत्र वपुषि मलं मलीमसत्वम् अलं व्यर्थम् मलचिन्ता न विधेयेति यावत् । तु किन्तु वस्तुतः परमार्थतः मुनिस्तुतं यतिजनस्तुतम् वस्तु
(२५०)