________________
निषद्यापरिषहजय से सहित है वह भी मुनिवरों से नमस्कार को प्राप्त हुआ उस परिषहजय का आश्रय ले, जीवन के अनेक वर्ष निकल गये हैं ||४७ ||
है। तू
[४८] श्रममितः श्रमणोऽत्र भुवि श्रुते, तपसि तत्परतः खलु विश्रुते । इति तं निशि यः श्रयते यते-रतिशयं तु जिनाशय ! तेऽयते । ।
भी
श्रममित इति - अत्र भुवि अस्यां वसुधायां श्रुते श्रुताभ्यासे विश्रुते प्रख्याते तपसि तपश्चरणे च तत्परतः समुद्यतत्वात् श्रमं खेदं इतः प्राप्तः यः श्रमणः साधुः निशि रात्रौ श्रयते सेवते शय्यामिति शेषः । स तु श्रमणः हे अशय ! शयनक्रियारहित ! हे जिन ! यतेः मुनिरूपस्य ते भवतः । अतिशयं प्रभावम् भवत्तुल्यप्रभावं अयते प्राप्नोति । इतीत्थं मतं दर्शनमस्तीति शेषः । । ४८ । ।
अर्थ - इस वसुधा पर शास्त्राभ्यास और प्रख्यात तप में तत्पर रहने से खेद को प्राप्त हुआ जो सांधु रात्रि में शय्या का आश्रय लेता है वह हे शयनरहिंत जिनेन्द्र ! यति -- मुनिरूप आपके अतिशय को प्राप्त होता है, ऐसा सिद्धान्त है ।।४८।।
[४९]
तृणशिलाफलके च सकारणं, भुवि तुरीयव्रतोन्नतिकारणम्। न हि दिवा शयनं निशि यामकं, स कुरुते मुनिको विनियामकम् । ।
(232)
तृणेति शयनं कुत्र कथं वा वरणीयमिति स्पष्टीकरोति । कारणं स्वाध्यायादिजनितखेद निवारणरूपकारणसहितं तुरीयव्रतोन्नतिकारणं तुरीयश्चतुर्थं यमो ब्रह्मचर्यमहाव्रतं तस्योन्नतेः कारणं निमित्तम् । तथाभूतं शयनं भुवि पृथिव्यां तृणशिलाफलके च तृणाः पलालादयस्तृणनिर्मितकटप्रभृतयश्च शिला पाषाणपट्टः फलकः काष्ठमञ्चिका च एषां समाहारद्वन्द्वः एषु शयनं कर्तव्यम् । दिवा दिवसे शयनं न हि कर्तव्यम् । स मुनिकः षष्ठगुणस्थानवर्ती मुनिः विनियामकं स्वच्छन्दं यामकं अधिकयामपर्यन्तं न हि कुरुते नो विदधाति । रात्रावपि स्वल्पकालपर्यन्तं शयनं करोतीत्यर्थः । । ४९ ।।
अर्थ - षष्ठगुणस्थानवर्ती मुनि स्वाध्यायादिजनित खेद को दूर करने तथा ब्रह्मचर्य व्रत की उन्नति के लिये पृथिवी, तृण, शिला अथवा काष्ठफलक पर शयन करते हैं। दिन में शयन नहीं करते और रात्रि में भी स्वच्छन्दता पूर्वक अधिक समय तक शयन नहीं करते ।। ४९||