________________
श्रमण तांमिति - श्रमणतां साधुतां श्रयता धृतवता श्रमणेन साधुना सह तु या समता अरं शीघ्रम् इता प्राप्ता भुवने जगति अनया एतया समतया सह रमिता रमणकर्ता सुधीर्विज्ञो जनः अविनश्वरां स्थायिनीं समतां विहाय त्यक्त्वा इह जगति नश्वराम् विनाशिनीम् समा मया शोभया सहिता समा तां सुन्दरस्त्रीं किमु अभिवाञ्छति ? समभिलषति ? अपि तु न । । ३९ ।।
अर्थ साधुता 'को धारण करने वाले साधु के द्वारा जो समता शीघ्र प्राप्त की गई इसके साथ रमण करने वाला ज्ञानी पुरुष इस अविनाशिनी समता को छोड़ क्या विनाशिनी सुन्दर स्त्री की इच्छा करता है ? अर्थात् नहीं । । ३९ ।।
[४०]
कठिनसाध्यतपोगुणवृद्धये, मतिमलाहतये गुणवृद्ध ! ये । पदविहारिण आगमनेत्रका, धृतदया विमदः भुवनेऽत्र काः ।।
कठिनेति - हे गुणवृद्ध! गुणैर्वृद्धस्तत्सम्बुद्धौ, हे गुणातिशयसंपन्न! कठिनसाध्यः क्लेशसाध्यो यस्तपो गुणस्तपोरूपगुणस्तस्य वृद्धये वर्धनाय । मतिमलाहतये बुद्धिदोषनिराकरणाय ये पदविहारिणः पदाभ्यां विहरन्तीत्येवंशीलाः । आगमनेत्रकाः आगम एव नेत्रं येषां ते शास्त्रलोचनाः चरगानुयोगनिर्देशानुसारं प्रवर्तमाना इत्यर्थः धृतदयाः धृता दया यैस्ते दयासंपन्ना विमदाः विगतो मदो येषां ते तथाभूता गर्वरहिताः काः आत्मानः अत्र भुवने लोके सन्तीति शेषः । अस्मिन् लोके खल्वेवंभूताः साधवः सन्ति चरणानुयोग़निर्देशमङ्गीकुर्वन्तः पदविहारं कुर्वन्ति जीवत्राणं विदधति, गृहस्थावस्थायां मतङ्गजादिवाहनैः जातं मदं मुञ्चन्ति बुद्धिवैमल्योपायमन्वेषमाणा विहरन्ति तपोगुणवृद्धिं च वाञ्छन्ति ।। ४० ।।
अर्थ - हे गुणवृद्ध! इस जगत् में जो आगमरूप नेत्र से युक्त, दयालु और मद से रहित आत्माएं - साधु हैं वे कठिनसाध्य तपरूप गुणों की वृद्धि के लिये एवं बुद्धि सम्बन्धी गल-दोषों को नष्ट करने के लिये पैदल ही विहार करते हैं ||४०||
[४१]
अथ निवारितकापदरक्षकाः, श्रममितास्तु निजापदरक्षकाः । अकुशलाध्वचलत्पदलोहिताः, किमु तदा सुधियोऽन्तरलोहिताः।।
अथेति - निवारितकापदरक्षकाः निवारितान्येव निवारितकानि, निवारितकानि आ समन्तात् पदरक्षकाणि विविधपादत्राणानि यैस्ते । श्रमम् चर्याजन्यखेदम् इताः प्राप्ताः । निजापदरक्षका निजस्य स्वस्य कण्टकादिजन्या या आपद् आपत्तिस्तस्या अरक्षका
( २३५ )