________________
[३५]
सुविधिना यदनेन विलीयते, मनसिजा विकृतिः किल लीयते । बलवती शुचिदृक् प्रविजायते, ध्रुवमतो लघुमायमजायते ।।
सुविधिनेति - यद् यस्मात्कारणात् अनेन मुनिना सुविधिना सम्यक्प्रकारेण विलीयते कर्मणि प्रयोगः । स्वस्मिन् विलीनोः निरतो भवतीत्यर्थः । मनसिजा मानसोद्भूता विकृतिः किल निश्चयेन लीयते नश्यति । बलवती सुदृढा शुचिदृक् निर्मलसम्यग्दर्शनं प्रविजायते प्रकर्षेण समुत्पद्यते । अतोऽस्मात् कारणात् यमजा चारित्रोत्पन्ना मा लक्ष्मीः ध्रुवं निश्चयेन लघु क्षिप्रं अयते प्राप्नोति । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः ।। ३५ ।।
अर्थ - जिस कारण मुनि विधिपूर्वक आत्मस्वरूप में लीन होता है, मानसिक विकृति को नष्ट करता है और उसके सुदृढ़ निर्मल सम्यग्दर्शन होता है अतः उसे संयम से उत्पन्न होने वाली मा-मोक्षलक्ष्मी शीघ्र ही नियम से प्राप्त होती है ।। ३५ ।।
[३६] मदनमार्दवमानसहारिणी, लसितलोलकलोचनहारिणी । मुदितमञ्जुमतङ्गविहारिणी, यदि दृशे किमु सा स्वविहारिणी ।। मदनमार्दवमानसहारिणी मदनस्य कामदेवस्य मार्दवेन
द
मृदुत्वेनोपलक्षितं यन्मानसं चित्तं तद् हरतीत्येवंशीला । लसितलोलकलोचनहारिणी लसिते शोभिते लोलके चञ्चले ये लोचने नयने ताभ्यां हारिणी मनोहरा । मुदितमञ्जुमतङ्गविहारिणी मुदितः प्रहृष्टो यो मज्जुमतो मनोहरगजस्तद्वद् विहरति भ्रमतीत्येवंशीला, गजगामिनीत्यर्थः स्त्री यदि दृशे दृष्टये प्राप्ता तर्हि निर्ग्रन्थश्रमणो मनसि विचारयति - सा तथोक्ता स्त्री किम् स्वविहारिणी स्वस्मिन् शुद्धात्मस्वरूपे विहरतीत्येवंशीला अस्ति अपि तु नास्ति । उ वितर्के । । ३६ ।।
अर्थ - कामदेव के कोमल चित्त को हरने वाली, सुन्दर एवं चञ्चल नेत्रों से मनोहर और प्रसन्न मनोहर हाथी के समान चालवाली स्त्री यदि दृष्टि के लिये प्राप्त होती है अर्थात् देखने में आती है तो निर्ग्रन्थ साधु विचार करता है क्या वह स्त्री स्वविहारिणी है ? अपने आप में रमण करने वाली है ? अर्थात् नहीं || ३६ ||
-
[३७] सततमुक्तचरा मदमोहिता, यदिति या प्रमदाप्तयमोदिता । यदि वने विजने स्मितभाषया वदति चास्तु यतिर्न विभाषया । । सततेति - यद् यस्मात् कारणात् इयं सततमुक्तचरा सततं निरन्तरं मुक्तं
"
(233)