________________
हो गया है, जिन्होंने वस्त्र का परित्याग कर दिया है और जो मोक्षाभिलाषी हैं, वे गुर हमारे हृदय में स्थित हों । मैं निरन्तर उनका ध्यान करता हूँ ।। ११ ।।
[१२]
निन्द्यं न नीतमस्तं मनो नैमित्तिकं येन समस्तम् । अन्धोऽरुणं प्रशस्तं किं संपश्यति पुरुषं स तम् ।।
येन समस्तं नैमित्तिकं निन्द्यं मनः अस्तं न नीतम, किं स तं प्रशस्तं पुरुषं संपश्यति ? (नैव), यथा अन्धः प्रशस्तम् अरुणम् (नैव पश्यति ) ।
निन्द्यमिति- येन मुनिना समस्तं नैमित्तिकं निमित्तेन जातं निन्द्यं मनश्चित्तं लक्षणया मनोव्यापारः । अस्तं समाप्तिं न नीतं नो प्राप्तं स किं प्रशस्तं श्रेष्ठं तं पुरुषं परमात्मानं संपश्यति समवलोकते ? नेत्यर्थः । तदेवोदाहिरयते - अन्धः किं प्रशस्तं विभ्राजमानमरुणं सूर्यं किं पश्यति ? मेत्यर्थः । 'पुरुषः पुन्नागमातङ्गे माधवे परमात्मनि ' 'अरुणोऽनूरुसूर्ययोः' इति च विश्वलोचनः ।। १२ ।।
अर्थ- जिसने समस्त नैमित्तिक निन्दनीय मन को अस्त नहीं किया वह क्या प्रशस्त परमात्मा का अवलोकन कर सकता है ? जैसे अन्धा मनुष्य क्या प्रशस्त सूर्य को देख सकता है ? अर्थात् नहीं ||१२||
[१३]
जितक्षुधादिपरिषहः पुद्गलकृतरागादि-भावासहः । वीतरागतामजहच्चाञ्चति यतिः स्वं मुदा सह ।।
जितक्षुधादिपरिषहः पुद्गलकृत-रागादि-भावासहः वीतरागताम् अजहत् यतिः स्वं मुदा सह अञ्चति । जिंतेति - जितक्षुधादिपरिषहः जिताः क्षुधादयः परिषहा येन तथाभूतः । पुद्गल - ये कृतरागादिभावासहः पुद्गलकृता रागादिभावास्तेषामसहः । वीतरागतां नीरागपरिणतिमजहत् अत्यजन् यतिः साधुः स्वं निजात्मानं मुदा हर्षेण सह साकं अञ्चति गच्छति प्राप्नोतीत्यर्थः । ‘मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः' इत्यमरः ।। १३ ।।
अर्थ - जिसने क्षुधा आदि परिषहों को जीत लिया है, जो पुद्गलकृत रागादिभावों को सहन नहीं करता है और वीतरागता को नहीं छोड़ता है, ऐसा साधु हर्ष के साथ स्वात्मा को प्राप्त होता है ।। १३ ।।
[१४]
वै यम्ययत्यप्ययं दिव्यं स्वीयमनिन्द्यं यद् द्रव्यम् । निश्चयनयस्य विषयं गृहीव परिग्रही नाव्ययम्
(t)
·