SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ विषधरैरिति - विषयातिगः विषयान् पञ्चेन्द्रियविषयानतीत्य गच्छतीति विषयातिग: पञ्चेन्द्रियविजयी। अदयातिग: अदयां निष्कारुण्यमतीत्य गच्छतीति अदयातिगो जीवदयासहितः। व्रतवान् मुनि र्यद्यपि विषमैर्भयङ्करैः विषधरैः सः परिवृतो वेष्टितो वर्तत इति शेषः। तु किन्तु अस्य व्रतवतो मुनेः तत् प्रसिद्धं शुचिमानसं पवित्रचित्तं मानसं मानससरः विषमविषधरपरिवृतत्वात् किञ्चन किमपि ईषदपीत्यर्थः कलुषितं मलिनं न भवति। किलेति वाक्यालंकारे। विषमविषधरैर्वेष्टितोऽपि न किस्जिद विभेति,न तत्प्रतिकारं च करोतीत्यर्थः।।२४।।। अर्थ - पञ्चेन्द्रियों के विषयों से रहित दयालुमुनि, यद्यपि विषम विषधरों - सर्पो से वेष्टित रहते हैं तथापि इनका पवित्र मन रूपी मानसरोवर उनसे कुछ भी कलुषित नहीं होता।।२४।। [२५] असुमतः प्रति यो गतवैरतः, शुभदयागुणके सति वै रतः। व्यथित नो मनसा वचसाङ्गतः, सदसि पूज्यपदं विदुषांगतः।। असुमत इति - यो मुनिः असुमतः प्राणिनः प्रति गतवैरत: गतं नष्टं यद् वैरं तस्मात्। वैररहितत्वात्। सति प्रशस्ते शुभदयागुणके शुभदयारूपगुणे स्वार्थे कः वै निश्चयेन रतो लीनः सन् मनसा वचसा अङ्गत्तः योगत्रयेण नो व्यथति न व्यथामनुभवति स विदुषां सुधियां सदसि सभायां पूज्यपदं पूज्य स्थानं गतः प्राप्तो भवतीति शेषः। 'विद्वान् विपश्चिद् दोषज्ञः सन् सुधी: कोविदो बुधः' इति ‘पदं व्यवसित त्राणस्थानलक्ष्माभ्रिवस्तुषु' इति चामरः ।।२५।।। अर्थ - जो मुनि प्राणियों के प्रति वैर रहित होने से निश्चयतः श्रेष्ठ दयागुण में लीन रहते हुए मन, वचन, काय से दुःखी नहीं होते, वे विद्वानों की सभा में पूज्य स्थान को प्राप्त होते हैं ||२५|| __ [२६] . रुधिरकं तु पिबन्ति पिबन्तु ते, स्तुतिसुधां सुखिनोऽज पिबन्तु ते। मम न हानिरिहास्ति हि वस्तुतः, इति तनोः पृथगस्मि भवस्तुत!।। रुधिरकमिति - हे भवस्तुत! भवेन समस्तसंसारेण स्तुतः स्तुतिविषयीकृतः तत्सम्बुद्धौ। हे अज!हे ब्रह्मन्! यदि ते मत्कुणमशकादयः रुधिरकं किञ्चिद् रुधिरं रक्तं पिबन्ति, पिबन्तु नाम । यदि ते सुखिनः सुखयुक्ता जना स्तुतिसुधां स्तवनपीयूषं पिबन्ति, तर्हि पिबन्तु। दुर्जनाः सुजनाश्च स्वस्वकार्य कुर्वन्तु नामेत्यर्थः। इहास्मिन् विषये वस्तुतो (२२८)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy