________________
आश्रय ले, मैं जिस परिषहशतक को कह रहा हूं वह विज्ञजनों के हर्ष के लिये, पापों के विनाश के लिये और उज्ज्वल ज्ञान के लिये होवे ||४||
[५]
समुदितेऽसति वै सति मे विधौ, क्षुदनुभूतिरियं प्रथमे विधौ । विधि - फलं ह्युदितं समयेऽयति, समतया सह यत्सहते यतिः । ।
समुदित इति - वै निश्चयेन मे मम यतेः असति अप्रशस्ते विधौ कर्मणि समुदिते समुदयं प्राप्ते सति। प्रथमे विधौ प्रथमभूमिकायां । इयमनुभूयमाना क्षुदनुभूतिः क्षुधोऽनुभूतिः क्षुदनुभूतिः क्षुत्पीडानुभवो भवति । यत् कर्म यतिः श्रमणः समतया मध्यस्थभावेन सहते तद् उदितमुदयागतं विधिफलं कर्मफलं समये स्वकाले फलदानानन्तरं। अयति गच्छति । उदयागतं कर्मफलमवश्यमेव नश्यतीति संचिन्त्य क्षुत्परिषहः साधुना सोढव्यः इति भावः । । ५ । ।
अर्थ - मेरे अशुभकर्म का उदय रहते हुए प्रारम्भिक भूमिका में यह क्षुधा की अनुभूति हो रही है उदयागत कर्म का फल समय आने पर चला जाता है- नष्ट हो जाता है ऐसा विचार कर साधु समताभाव से क्षुधापरिषह का सहन करते हैं । । ५ ।
[६] भवतु सा तु सतां वरभूतये, सुगतये विधिसंवरभूतये ।
कुगतये कुधियां किल कारणं, विषयतोऽसुखि चैतदकारणम् ।। भवत्विति सा प्रसिद्धा क्षुधा सतां साधूनां वरभूतये श्रेष्ठसम्पदे, सुगतये देवादिगतिप्राप्तये, विधिसंवरभूतये विधीनां कर्मणां संवर एव भूतिः सम्पत्तिः तस्यै भवतु । तु किन्तु कुधियां कुगतये नरकादिगतिप्राप्तये कारणं निमित्तं भवति । किलेति वाक्यालंकारे। एतद् जगत् विषयतः पञ्चेन्द्रियविषयेभ्यः अकारणं निर्निमित्तम् असुखि दुःखि वर्तते' इति शेषः । । ६ । ।
-
अर्थ - वह क्षुधापरिषह साधुओं को उत्कृष्ट संपत्ति के लिये, देवादिगति की प्राप्ति के लिये तथा कर्मों के संवररूप विभूति के लिये होता है परन्तु अज्ञानीजनों को दुर्गति के लिये होता है। यह जगत् विषयों से अकारण ही दुःखी हो रहा है || ६ ||
[७] कनकतां दृशदोऽनलयोगतः, शुचिमिता अनया मुनयो गतः । अभिनुता जितचित्तभुवा क्षुधा, शिवपथीत्युदिता निजवाक्षु धा । ।
(२१६)