________________
[१] शिवसुखं प्रमुखं सुसमागमः,स्मृतिरियं तव चास्तु समागमः । कुमतये कुदृशा तु समागमः,स्वपरतेरुपयातु स मा गमः ।।
शिवेति - हे भगवन्! प्रमुखं श्रेष्ठं शिव सुखं मोक्षसुखं, सुसमागमः सत्संगतिः, तव भवतः, इयं स्मृतिराध्यानम् समागमः समीचीनशास्त्रं च अस्तु भवतु । एषां प्राप्तिः सदा भवत्वित्यर्थः। तु किन्तु कुमतये कुबुद्धये, कुदृशा कुत्सिता दृग्यस्य स तेन मिथ्यादृष्टिना समागमः संगतिः स्वपरतेस्तीवविद्वेषस्य, स प्रसिद्धः, गमो मार्ग: 'गमो द्यूतान्तरे मार्गे' इति विश्वलोचनः। मा उपयातु नो प्राप्नोतु।।१।।
अर्थ - हे भगवन्! श्रेष्ठ मोक्षसुख, सत्समागम, आपका ध्यान और समीचीन शास्त्र प्राप्त हों किन्तु कुबुद्धि के लिये मिथ्यादृष्टि के साथ समागम और तीव्र विद्वेष का प्रसिद्ध मार्ग प्राप्त न हो ।।१।। .
[२] वियति को वियतिर्वियुतोऽयतः, गतियतिं ह्यगतो यतितोयतः। शकलतो विकलं कलशंकरं, किल यजे सकलं ह्यनिशं करम् ।।
वियतीति - यो वियति कः सूर्यः सूर्य इवाभातीति यावत्। वियतिः विशिष्टो यति वियतिर्यतिनााक इति यावत्। अयतः कर्मोदयात् वियुतो रहितः। गतियतिं गतिर्ज्ञानं तस्य यतिः विश्रान्तिस्तां हि निश्चयेन अगतोऽप्राप्तः अनन्तज्ञानसम्पन्न इति यावत् । यतितोयतः यमनं यतिर्विषयनिवृत्तिः स एव तोयं जलं तस्मात् सहित इति शेषः। शकलतः खण्डतो विकलं रहितं सम्पूर्णलोकालोकं जानातीति शेषः पूर्वोक्तगुण विशिष्टं तं सकलं कलेन शरीरेण कलाभिः वैदग्धीभिर्वा सहितं करं कं सुखं राति ददातीति करस्तं सुखदायकम्। कलशंकरं सुखशान्तिकरं जिनेन्द्रम् अनिशं निरन्तरं यजे पूजयामि। किलेति वाक्यालङ्कारे। 'को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु। कं सुखे वारि शीर्षे च' इति विश्वलोचनः ।।२।।
अर्थ - जो आकाश में सूर्य के समान गतिशील हैं. यतियों में श्रेष्ठ हैं. जो कर्मोदय से रहित हैं अथवा अय-शुभावह विधि से वियुत-विशेषरूप से सहित हैं,
(२९