________________
[७] मनाङ् मानं मोरसि मुनिरेतु रचयतु रुचिं जिनवचसि ।
वसत्वरण्ये रहसि स्नातुमिच्छति स्वचित्सरसि ।। मुनिः उरसि मनाङ् मानं मा एतु। (चेत्) स्वचित् सरसि स्नातुम् इच्छति (तदा) जिनवचसि रुचिं रचयतु, रहसि अरण्ये (च) वसतु।
मनाङिति-मुनिर्यतिः उरसि हृदये मनाङ् ईषदपि मानं ज्ञानादिजातं गर्वं मा एतु न प्राप्नोतु। चेत् स्वचित् सरसि स्वस्य चिदेव सरस्तस्मिन् स्वकीयज्ञानकासारे स्नातुं स्नानं कर्तुमिच्छति वाञ्छति तर्हि जिनवचसि रुचिं प्रीतिं रचयतु करोतु। रहसि एकान्ते अरण्ये वने वसतु निवासं कुरु ।।७।। ___अर्थ-मुनि को चाहिये कि वह हृदय में किञ्चित् भी मान को प्राप्त न हो । यदि वह आत्मज्ञान रूपी सरोवर में स्नान करना चाहता है तो जिनवचन-जिनागम में रुचि करे एवं एकान्त वन में निवास करे।।७।।
[८] याति यतिर्यदि जातु न कर्म तस्यावश्यं हृदि भातु ।
स्वतत्त्वमिति हि विधातुर्गीर्जगद्भ्यः सुखं ददातु ।। “यदि यतिः कर्म न याति जातु, (तदा) तस्य हृदि स्वतत्त्वम् अवश्यं भातु' -इति विधातुः गीः, (सा) जगद्भ्यः सुखं ददातु।
यातीति- यदि यतिः साधु: जातु कदाचित् कर्म बाह्यक्रियाडम्बरं न याति न प्राप्नोति तर्हि तस्य हृदि मानसे 'स्वान्तं हृन्मानसं मनः' इत्यमरः। अवश्यं नियमेन स्वतत्त्वमात्मतत्त्वं भातु शोभताम्। इत्येवंप्रकारा विधातुर्भगवतो गीभरती जगद्भ्यो लोकेभ्यो निश्चयेन सुखं ददातु ।।८।।
अर्थ- यदि मुनि कभी बाह्यक्रियाओं के आडम्बर को प्राप्त न हो तो उसके हृदय में आत्मतत्त्व नियम से सुशोभित होने लगे। जिनेन्द्र भगवान् की ऐसी वाणी जगत के लिये सुख प्रदान करे ||८||
[९] भवता विषयवासनाऽपास्यतामुपास्यतां निजभावना ।
प्राहेति जैनोऽमना यद् भवन्तमटेत् शिवाङ्गना ।। भवता विषयवासना अपास्यताम्, निजभावना उपास्यताम्। यद् भवन्त शिवागना अटेत्-इति अमनाः जैनः प्राह ।
भवतेति- हे साधो ! भवता त्वया विषयवासना पञ्चेन्द्रियविषयाभिरुचिः ।