SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ परपरिणतेरिति- हे ऋषिभिः तपस्विभिः, उरसि स्वकीयहृदये वनित! संशोधित! ऋषयो यस्य शुद्धं रूपं स्वहृदये दधतीत्यर्थः। यः परपरिणतः परेषु स्वेतरवस्तुषु या परिणतिः ममत्वभावना कषायपरिणतिरित्यर्थः, तस्याः अवनितः भूमितः, अवनिशब्दात् तसिल प्रत्ययः, स्वात्मानम् अवन् रक्षन् , स्वागमं सुष्ठु आगम: स्वागमः, स्वस्य आत्मनो वा आगमः स्वागमः तम्, इतः प्राप्तः, तेन जनेन, निजं स्वकीयम्, अवनितद्रव्यं अवनितम् अयाचितं स्वतः सिद्धम्, आत्मद्रव्यम्, आप्यते प्राप्यते, 'वनितं याचिते क्लीवं शोधिते वनितं त्रिषु' इति विश्वलोचनः ।।७४।। अर्थ- ऋषि समूह जिसे हृदय में धारण करते हैं ऐसे हे प्रभो! जो परपरिणति की भूमिस्वरूप कषायभाव से स्वकीय आत्मा की रक्षा करते हुये उत्तम आगम को प्राप्त हुए हैं उन उपाध्याय के द्वारा स्वतः सिद्ध आत्मद्रव्य प्राप्त किया जाता है।।७४।। . [७५] निशापति लीकं तोषयति नायं गवा नालीकम् । . निष्पक्षोऽनालीकं कोऽमुं न मनुतेऽनालीकम् ।। निशापतिः न नालीकं तोषयति अयं तु (उपाध्यायः) निष्पक्षः नालीकं अनालीकं गवा (तोषयति) (ईदृक्कार्ये) कः अनालीकं अमुं न मनुते ? निशापतिरिति- निशापतिः चन्द्रः, न नालीकं कमलसमूहं तोषयति संतुष्टं करोति, अयं तु (उपाध्यायः) निष्पक्षः पक्षातिक्रान्तः सन् नालीकम् अज्ञं मूर्खम् , अनालीकं विज्ञं, गवा वाण्या, (तोषयति) ईदृक्कार्ये कः अनालीकं अलीकः अप्रियः, अलीक एव आलीकः, न आलीक: अनालीकः तं प्रियं क: न मनुते? सर्वोऽपि मनुते इत्यर्थः। 'नालीक: पिण्डजेऽप्यज्ञे नालीक: शरशल्ययोः। नालीकं पद्मखण्डेऽपि' इति विश्वलोचनः। ‘गौः पुमान् वृषभे स्वर्गे खण्डव्रजहिमांशुषु। स्त्री गवि भूमिदिग्नेत्रवाग्वाणसलिले स्त्रियः' इति च विश्वलोचनः ।।७५।। ____ अर्थ- चन्द्रमा गो-किरणों से नालीक कमल को संतुष्ट नहीं करता परन्तु यह उपाध्याय निष्पक्ष हो नालीक - अज्ञ और अनालीक - विज्ञ को अपनी गो वाणी से संतुष्ट करते हैं। इस प्रकार के कार्य में उन्हें कौन प्रिय नहीं मानता?।७५ ।। [७६] वैद्यो रोगविनाशीव ह्ययं कामविदारकः । वन्द्योऽतोऽङ्ग! जनानां वः स्वयं कामप्रदायकः ।। हे अङ्ग! रोगविनाशी वैद्यः इव हि अयं (उपाध्यायपरमेष्ठी) कामविदारकः स्वयं कामप्रदायकः अतः वः जनानां वन्द्यः (अस्ति)। (१८२)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy