SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ हर्षेण, तां दुर्लभां, अमितां अपरिमितां, शक्तिं वीर्य, अपि च, अये प्राप्नोमि, आचार्यभक्तितोऽनन्तवीर्ययुतं मोक्ष प्राप्नोमीत्यर्थः ।। ७०।। ____ अर्थ- हे गुरो! मैं पूज्य आचार्य की भक्ति सदा उत्कट अनुराग से करता हूँ। निश्चित ही उनके संपर्क से मैं हर्षपूर्वक उस अपरिमित शक्ति को प्राप्त हो रहा हूँ।।७०।। [७१] विदामिहाहं रमतिः कदाप्येति न मदमिति मुधा रमतिम् । स्वस्मिन् स्मरति विरमति स्मरतु तं तु ते ह्युदारमतिः ।। इह भुवि अहं विदां रमतिः इति कदापि मुधा मदं न एति। (स उपाध्यायपरमेष्ठी) रमतिं न स्मरति स्वस्मिन् विरमति ते उदारमतिः तं हि स्मरतु तु पादपूर्ती। विदामिति- इह भुवि, अहं विदां, ज्ञानानां, रमति: नायकः स्वामीत्यर्थः, इति हेतोः, कदापि मुधा व्यर्थं, मदं गर्वं, न एति न प्राप्नोति, (स उपाध्यायपरमेष्ठी) रमतिं स्वर्गं न स्मरति न ध्यायति। 'रमतिनयिके स्वर्ग' इति विश्वलोचनः। स्वस्मिन् स्वशुद्धात्मनि , विरमति विश्रान्तो भवति, ते उदारमतिः उत्कृष्टबुद्धिः (सती) तं पालक 'पालने पालके तः स्यात्' इति विश्वलोचनः। तम् उपाध्यायपरमेष्ठिनम् , हि निश्चयेन, स्मरतु ध्यायतु, तु पादपूर्ती ।।७१।। ___ अर्थ- 'इस पृथिवी पर मैं ज्ञानों का स्वामी हूँ' इस प्रकार के व्यर्थं मद को जोकभी नहीं प्राप्त होते, जो स्वर्ग का स्मरण नहीं करते तथा अपने आप में विश्राम करते हैं उन उपाध्याय परमेष्ठी का तेरी उदार बुद्धि निश्चय से स्मरण करे ||७१।। . [७२] कृतमदममतापचितिर्यस्मादाप्तनिजानुभवोपचितिः । तस्य ह्यपपाप ! चिति स्थितये क्रियते मयाऽपचितिः ।। यः (उपाध्यायपरमेष्ठी) कृतमदममतापचिति: यस्माद् आप्त - निजानुभवोपचितिः तस्य हि हे अपपाप ! चिति स्थितये मया अपचितिः क्रियते। कृतमदेति- यः (उपाध्यायपरमेष्ठी) कृतमदममतापचितिः कृता मदममतयोः मानममत्वभावयोः अपचितिर्हानिर्येन स: । यस्मात् कारणात्, आप्तनिजानुभवोपचितिः आप्ता निजानुभवस्य आत्मानुभवस्य उपचितिवृद्धिर्येन सः। तस्य हि उपाध्यायपरमेष्ठिनः, हे अपपाप! अपगतं पापं यस्य तत्सम्बुद्धौ, चिति आत्मनि, स्थितये अवस्थानाय, मया अपचितिः पूजा, क्रियते विधीयते।. स्त्रियामपचितिः पूजानिष्कृतिक्षयहानिषु' इति विश्वलोचनः । 'पूजानमस्यापचितिः' इति चामरः ।। ७२ ।। . (१८०)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy