________________
[६६]
स्वयमनुसमयञ्चरति परान् चारयति च न परे विचरति । मुञ्चत्यरतिञ्चरतिमस्तु मम तत्पादयोश्च रतिः । ।
यः सूरिः स्वयं अनुसमयं चरति, परान् चारयति च परे न विचरति, अरतिं रतिं च मुञ्चति, तत्पादयोः मम रतिः च अस्तु ।
स्वयमिति- यः सूरिः, स्वयं अनुसमयं यथाशास्त्रं चरति, अपरान् इतरान् चारयति च । परे परद्रव्ये न विचर्राते न विहरति, अरतिं अप्रीतिं रतिं प्रीतिं च मुञ्चति, तत्पादयोः तच्चरणयोः मम रतिः प्रीतिः, अस्तु भवतु ।। ६६ ।।
1
अर्थ— जो आचार्य स्वयं शास्त्रानुसार आचरण करते हैं, दूसरों को आचरण कराते हैं, परद्रव्य में विचरण नहीं करते हैं और अप्रीति तथा प्रीति को छोड़ते हैं उनके चरणों में मेरी प्रीति हो || ६६ ||
[६७]
रजोगतमिव लोचकं लोचकः संगत मुनिपालो च कम् । मत्वात्र मालोचकं सुविदा रक्ष कृपालो चकम् ।।
उ! मुनिपाल! कं संगत कृपालो ! मां लोचकं च कं मत्वा सुविदा रक्ष, अत्र रजोगतं लोचकं लोचक इव ।
"
रजोगतमिवेति- मुनिपालो मुनिपाल +उ इतिच्छेदः । उ सम्बुद्धौ मुनिपाल ! मुनिरक्षक ! कं सुखम् आत्मानं च ' को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु । कं सुखे वारि शीर्षे च' इति विश्वलोचनः । संगत ! प्राप्त ! कृपालो ! दयालो ! मां लोचकं निर्बुद्धिनरं, कम् आत्मानं मत्वा, सुविदा सम्यग्ज्ञानेन, रक्ष त्रायस्व, अत्र जगति, रजोगतं प्राप्त - धूलिकं लोचकं नेत्रतारकं, लोचक इव कज्जल इव । 'लोचको नेतारके । मांसपिण्डे च पिण्डे च योषिद्भालविभूषणे । कज्जले नीलचोले च मौर्व्यां भ्रूश्लथचर्मणि । कदल्यां कर्णपूरे च निर्बुद्धिनृषु लोचकः । ' इति विश्वलोचनः । । ६७ ।।
अर्थ- हे मुनिपाल ! मुनियों के रक्षक! क- सुख अथवा आत्मा को प्राप्त ! दयालो आचार्य! मुझ निर्बुद्धि को आत्मा मान कर सम्यग्ज्ञान से मेरी उस प्रकार रक्षा करो, जिस प्रकार धूलि से युक्त नेत्र की कज्जल रक्षा करता है || ६७ ||
[६८]
योगैश्च धाराधरः सुविधिध्वंसधृतधृतिधाराधरः । दुरितविषधाराधरः सज्जनमयूरधाराधरः । ।
(१७८)