________________
[४०] सत्यस्मिन्नेव संत्याग आलोको भास्करे यथा ।
सत्यं मुने ह्यसङ्गाङ्ग व्यलोलं भातु रे! तथा ।। हे! अङ्ग असङ्ग मुने यथा भास्करे सति आलोकः भातु तथा अस्मिन् संत्यागे सति हि सत्यं व्यलोलं भातु ।
सत्यस्मिन्निति- अङ्ग असङ्ग मुने! हे निम्रन्थसाधो! यथा भास्करे सूर्ये, सति विद्यमाने, आलोकः प्रकाशो, भातु शोभताम्, तथा अस्मिन् संत्यागे शक्तितस्त्यागभावनायां सत्यामित्यर्थः 'नानुस्वारविसर्गौ च चित्रभङ्गाय सम्मतौ' इत्युक्तेरनुस्वारन्यूनता चित्रभङ्गाय नास्ति। सति हि निश्चयेन सत्यं सत्यधर्मः व्यलोलं विशेषेण अलोलं व्यलोलम् अतिस्थिरं भातु शोभताम्। 'लोलश्चलसतृष्णयोः' इत्यमरः।।४।।
अर्थ- अङ्ग असङ्ग मुने! जिस प्रकार सूर्य के रहते प्रकाश सुशोभित रहता है, उसी प्रकार इस त्यागधर्म के रहे हुए सत्यधर्म निश्चय से अत्यन्त स्थिर सुशोभित रहे।।४०.||
[४१] स्थितिर्निजात्मनि काये तपो न मुनेः क्षणान्तात्मनि काये ।
रता क्दन्ति निकायेऽन्यथा त्विति व्यथा मुनिका ये ।। क्षणान्तात्मनि काये स्थितिः मुनेः तपः न (किन्तु) काये निजात्मनि स्थितिः तपः, अन्यथा तु व्यथा (भवेत्) इति निकाये ये रता मुनिकाः वदन्ति ।
. स्थितिरिति- क्षणान्तात्मनि क्षणभङ्गुरस्वरूपे काये शरीरे, स्थितिः ममत्वभावेन परिणतिः मनेः साधोः तपो न तपश्चरणं न विद्यते (किन्तु) काये स्वभावे, निजात्मनि स्वकीयात्मनि, स्थितिः स्वकीयत्वपरिणतिः, तपः। अन्यथा तु निजात्मानं त्यक्त्वा शरीरप्रभृतिषु परपदार्थेषु ममत्वभावे सति तु व्यथा पीडा, (भवेत्) इति इत्थं, निकाये स्वभावे ये रता लीनाः, (ते) मुनिकाः मुनय एव मुनिका यतयः, वदन्ति कथयन्ति । 'कायो वर्मस्वभावे च' । 'निकायः स्वात्मवेश्मनोः' इति च विश्वलोचनः ।।४१।।
____अर्थ- 'क्षणभङ्गुर शरीर में स्थित रहना-उसमें ममत्व रखना मुनि का तप नहीं है किन्तु निजात्मा में रहना तफ है, अन्यथा पीड़ा होती है ऐसा निकाय- स्वभाव में स्थित मुनि कहते हैं ||४१।।
(१६५)