________________
भावार्थ-कविता लिखने मात्र से कोई कवि नहीं होता किन्तु उस कविता को आत्मसात् करने वाला ही परमार्थ से कवि होता है ।।७२।।
__. [७३ ] जिनवरं परिवेत्ति विनिश्चितं,स नितरां हि निजं च मुनिश्चितम्।
किमु न धूम्रविदत्र सदागते,सहचरं सहजं च सदागते! ।। हे स दागते! (यः) जिनवरं परिवेत्ति स मुनिः हि नितराम् निजम् चितम् (परिवेत्ति) (उचितमेव) अत्र (भुवि) यः धूम्रवित् सदागतेः सहचरं च किमु न सहजम् (परिवेत्ति?)
जिनवरमिति-हे सदागते! सदागतिर्ज्ञानं यस्य तत्सम्बुद्धौ । यो जिनवरं जिनेन्द्र विनिश्चितं निःसंदेहं यथास्यात्तथा परिवेत्ति जानाति स मुनिर्हि नितरामतिशयेन निजं . स्वकीयं चितमात्मानम् परिवेत्ति । तदुक्तं कुन्दकुन्ददेवैः 'जो जाणदि अरहंतं दव्वत्तगुणत्तपज्जयत्तेहिं । सो जाणदि अप्पाणं मोहो खलु जादि तस्स लयं ।' युक्तमेतत् अत्र लोके यो धूमवित् धूमज्ञानवानस्ति स सदागतेः पवनस्य सहचरं सखायम् च अग्निमिति यावत् किमु न सहजमनायासेन परिवेत्ति? अपि तु परिवेत्त्येव ।।७३ ।।
___अर्थ- हे सदागते! हे शाश्वतिक ज्ञान के धारक! जो जिनवर-अरहन्तदेव को जानता है वह मुनि निश्चय से अच्छी तरह निज आत्मा को जानता है । ठीक ही है क्योंकि पृथिवी पर जो धुवां का जानकार है वह क्या सहज ही अग्नि को नहीं जानता? अवश्य जानता है ||७३।।
_ [७४ ] समवधूय विधिं किल शाश्वतमिति पदं प्रगतं सहसा स्वतः।
शरणदं न विहाय ततोऽपरं,विरिव नावमये ह्ययजितापरम्।। हे अजित! विधिं समवधूय किल शाश्वतं परम् शरणदम् इति पदम् सहसा स्वतः प्रगतं (त्वां) विहाय ततः अपरम् विः इव नहि (अहं) अये।
समवधूयेति- हे अजित! न जितो भोगाकांक्षयेत्यजितस्तत्संबुद्धौ ! विधिं कर्म समवधूय निरस्य किल शाश्वतं शश्वद्भवं शाश्वतं नित्यं परं श्रेष्ठं शरणदं शरणं ददातीति शरणदं रक्षणप्रदं इति पदम् इतीत्थंभूतमष्टप्रातिहाथै विशोभितमार्हन्त्यपदंस्वतः स्वेनैव सहसा झगिति प्रगतं प्राप्तं भवन्तं विहाय त्यक्त्वा ततो भवन्त: अपरमन्यं हरिहरादिकमिति यावत् नावं नौकां विहाय विरिव पक्षीव नहि नैव अये गच्छामि 'अयगतौ' इत्यस्य प्रयोगः । अपारपारावारे समुत्पततः पत्रिणो यथा नावं विहाय नान्यच्छरणमस्ति तथानन्ते भवसागरे मज्जनोन्मज्जनं विदधतो मम भवन्तं विहायान्यः कोऽपि शरणं नास्तीति भावः ।।७४।।
(१११)