________________
हे यते ! त्वयि रुचिं बिना शिवराधनम् केवलम् आत्मविराधनम् शिरसा नगविदारणवत् भवतु । इति ते इदम् मतम् (यत्) जगताम् स्वरसाय (अस्तु) |
त्वयीति - हे यते! हे मुने! त्वयि भवति रुचिं प्रीतिं श्रद्धां वा विना शिवाराधनं मोक्षाराधनं केवलं मात्रं आत्मविराधनं स्वस्य दुःखीकरणं शिरसा मूर्ध्ना नगविदारणवत् पवर्तभेदनमिव भवतु इदं ते तव मतं सिद्धान्तो जगतां जगज्जनानां स्वरसाय सुखलाभायास्तु। हे देव! त्वच्छ्रुद्धानं विना मोक्षप्राप्तीच्छया तपः प्रभृत्याचरणं केवलं शिरसा पर्वतविदारणवत् निष्फलं भवतीति भावः । । ६३ । ।
अर्थ - हे यतिराज ! आप से प्रीति अथवा श्रद्धा के विना मोक्ष की आराधना करना- तपश्चारणादि करना शिर से पहाड़ फोड़ने के समान मात्र आत्मविराधना- आत्मघात है। आपका यह मत जगत् के सुख के लिये है ।। ६३ ।।
[ ६४ ]
समुदयागत ईश शुभे विधौ, नहि तथा किल शीतलतां विधौ । अनुभवामि यथा तव सन्निधौ, ह्यतुलवैभवपूरितसन्निधौ । ।
श! समुदयागते शुभे विधौ विधौ (च) किल तथा शीतलतां न हि यथा तव हि अतुल वैभवपूरितसन्निधौ सन्निधौ अनुभवामि ।
समुदयेति- हे ईश ! समुदयागते समीचीनकर्मोदयप्राप्ते शुभे प्रशस्ते विधौ दयादानादिशुभकार्ये, समुदायेनागतः प्राप्तस्तस्मिन् सूदिते विधौ चन्द्रमसि च तथा तादृशीं शीतलतां सुखशान्तिं किल न हि अनुभवामि यथा यादृशीं । अतुलवैभवपूरितसन्निधौ अतुलवैभवेनाप्रतिमैश्वर्येण पूरित: सन्निधिः समीचीनविधिस्तद्रूपे तव जिनेन्द्रस्य सन्निधौ समीपे हि निश्चयेनानुभवामि संवेदयामि ।। ६४ । ।
अर्थ- हे ईश ! समुदयागत - पुण्यकर्मोदय से प्राप्त शुभकार्य में और सम्यक् प्रकार से उदित चन्द्रमा में वैसी शीतलता का अनुभव नहीं करता हूं जैसी कि अनुपम वैभव से परिपूर्ण समीचीनं निधिस्वरूप आपकी सन्निधि-निकटता में करता हूं || ६४ ||
[ ६५ ]
असि निजानुभवादिसमाधितः, स्खलितवान् भवतो द्रुतमाधितः । सुधृतिमन्त इतीश ! तदाप्तये, स्वनिरता मुनयोऽपि सदाप्त ! ये ।। ईश ! आप्त! निजानुभवादि समाधितः आधितः भवतः द्रुतं स्खलितवान् इति ( मत्वा) तदाप्तये सुधृतिमंतः ये मुनयः सदा स्वनिरताः सन्ति ।
(१०६)