________________
[ ५८ ]
स्ववपुषा प्रथमं पृथगम्बरमज समुज्झ्य चिता च दिगंबरः । यवमलं न तृणं ननु पाचकः, कलयति प्रथमं स्वकपाश्च क !
हे स्वकपाः ! अज !! प्रथमं पृथक् अम्बरं समुज्झ्य स्ववपुषा दिगम्बरः ( जातः) च (पुनः) चिता (दिगम्बरः जातः) (उचितमेव ) ननु पाचकः प्रथमं तृणं कलयति नच यवमलम् (यवमलं तु पश्चात् कलयति ) ।
स्ववपुषेति- हे स्वकपाः ! स्व एव स्वकस्तं पाति रक्षतीति स्वकपास्तत्सम्बुद्धौ । हे अज! न जायत इत्यजः तत्सम्बुद्धौ । हे जन्मातीत ! हे क! हे आत्मन् ! ब्रह्मन् ! वा । प्रथमं प्राक् पृथक् अम्बरं पृथग्भूतं वस्त्रं समुज्झ्य त्यक्त्वा स्ववपुषा स्वशरीरेण दिगम्बरो जातः पश्चाच्च चिता मनसा दिगम्बरो जातः । उचितमेतत् - पाचकः पौरोगवः प्रथमं तृणं कलयति यवमलं धान्यविशेषमलं न कलयति गृह्णाति । प्राग् वस्त्रं त्यक्त्वा शरीरेण दिगम्बरो जातस्त्वं पश्चाच्चान्तरङ्गपरिग्रहं त्यक्त्वा चिता चेतनेन दिगम्बरो जातः । एतदेवोदाहरणेन समर्थयति - पाचकः प्रथमं यवान्नात्तृणं तुषं गृहीत्वा दूरीकरोति पश्चाच्च मुसलादिना तन्मलं गृहीत्वा दूरीकरोतीति भावः ।। ५८ । ।
अर्थ- हे आत्मरक्षक ! हे जन्मरहित! हे ब्रह्मन् ! आप पहले वस्त्र को छोड़कर स्वशरीर से दिगम्बर हुए थे । पश्चात् चेतना से दिगम्बर हुये थे । यह उचित ही है, क्योंकि.रसोई बनाने वाला पहले तुषरूप तृण को बीनता है पश्चात् जौ के मल- - ललाई आदि को ग्रहणकर दूर हटाता है ।। ५८ ।।
[ ५९ ]
य उपधि र्जगता समुपासितः, मृतिभयं न विनामृतपाः शित ! अभयताप्तय एव समुद्यतो भवदुपासनया द्रुतमुद्यतः । ।
"
अमृतपाः ! शित ! यः उपधिः जगता समुपासितः (स) मृतिभयं विना न ( अतः ) एषः (मुनिः ) अभयताप्तये भवदुपासनया समुद्यतः यतःद्भुतम् उत् (स्यात्) ।
य इति- हे अमृतपाः ! अमृतं मोक्षं पाति रक्षतीति अमृतपास्तत्सम्बुद्धौ । अथवा अमृतं हृद्यवस्तु पाति रक्षतीति तत्सम्बुद्धौ । 'अमृतं मोक्षपीयूषसलिले हृद्यवस्तुनि ' इति विश्वलोचनः । हे शित ! हे शांत! 'शितं शकुनिशांतयो-' इति विश्वलोचनः । य उपधिः परिग्रहो जगता लोकेन समुपासितः सेवितः स्वीकृत इति यावत् । स मृतिभयं मृत्युभीतिं विना न समुपासितः न सेवितः । एषः अभयत्वं प्राप्तये मुनि अभयप्राप्तये भवदुपासनया भवदाराधनया समुद्यतः । यत् यस्मात् द्रुतं शीघ्रम् । उत् उद्गतः स्यात् मुक्तः स्यादिति भावः । अथवा 'द्रु गतौ' इति धातोर्भावे क्तप्रत्यये द्रुतं भवति तस्य च 'उत्' अव्ययेन सम्बन्धः । एवं ‘उद्द्द्रुतं' इत्यस्योर्ध्वगमनमित्यर्थः कल्पनीयः ।। ५९ । ।
(१०३)
"